पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७०३ - ११.०पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । व्यकवचनाच्च । हविर्धानकरणे विशेषमाहाऽऽपस्तम्बः-पुरस्तादुन्नतं पश्चानिनतर हविर्धानमिति । उपरवकर्मण उपस्थितत्वादध्वयोनिष्कमणप्रयोजनाभावेऽप्यदृष्टार्थमस्मि- लेव काले कृत्वा पुनः प्रविश्योपरवकर्म कर्तव्यमिति केचित् । अन्ये तु दृष्टार्थ मस्वाड- मीभोयविमानकाल एक निष्क्रामत्यध्वर्युः । इतरोऽत्रैव निष्कामति । यजमानस्याफि पानमानसूत्रे निष्क्रमणं वक्ष्यति । तस्याप्यध्वर्युवदेवेत्याहुः । वस्तुतोऽत्रैव वाऽऽनीधीय. विमानकाल एव वोभयोनिष्क्रमण सहैवेत्येव युक्तम् । यजमानस्य तु विष्णियनिवपनो- त्तरमेव निष्क्रमणमित्यत्र साधकं याजमानसूत्रे वक्ष्यते । इति ओकोपाहश्रीमदमिष्टोमयाजिसहस्राग्नियुक्तवाजपेययाजिसर्व- लोमुखयाजिद्विषाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूज- गोपीनाथदीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्य- केशिमूत्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसं: लापशामिकायां ज्योत्स्नाख्यायां वृत्ती सलम- प्रश्नस्य पश्चमः पटलः॥५॥

7.6 अथ सप्तमप्रश्ने षष्ठः पटलः

दक्षिणस्य हविर्धानस्य पुरोक्षं चत्वार उपरवा भवन्त्यवान्तरदेशेषु प्रादेशमुखाः प्रादेशान्तराला बाहुमात्राः संतृण्णा अधस्ताद्विधृता उपरिष्टात् ।

दक्षिणग्रहणमुत्तरन्यावृत्यर्थम् । दक्षिणस्येत्येतावत्युच्यमाने चक्रस्यापि विशेष्यस्व- संभवात्। षष्ठ्याश्च सामीप्यार्थत्वस्यापि कदाचित्सत्त्वाइक्षिणतत्वसमीपवर्तिसंलग्यो योऽ- सप्रदेशस्तस्य पुर इत्यप्यर्थः स्यान्स मा भूस्कितु मध्ये यथा स्यादित्येतादृशाविशेष. योसनाय हविर्धानग्रहणम् । अक्षस्य पुरः पुरोक्ष पुरस्तादक्षस्येत्यर्थः । षठ्याः सामी- प्यार्थत्वकल्पनयाऽक्षस्य समीप एव । एवं चाधस्तादक्षिणस्य हविर्धानस्पति फलितं मवति । सष्टमेवामुमर्थमाहाऽऽपस्तम्मः-दक्षिणस्य हविर्भानस्याधस्तात्पुरोक्षं चतुर उपरवान- कान्तरदेशेषु प्रादेशमुखाम्पादेशान्तरालाकरोति । चत्वार उपस्वा भवन्तीत्येतत्सामा- न्यप्रतिज्ञानम् । उपोपरिष्टाग्राणां रवः शब्दो येषु ते । अवान्तरदेशेषु आग्नेयेशान. नेत्यवायव्यकोणेषु । प्रादेशमितानि मुखानि येषां ते प्रादेशमुखाः । प्रादेशमितान्य- न्तरालानि दिक्षु येषां ते प्रादेशान्तरालाः । अन्तरालमानमपि प्रादेश इत्यर्थः । बार- व मात्रा प्रमाणं येषां ते बाहुमात्राः । संतृण्णाः सम्यगेकीभूताः । एतद्यमधस्तास- बैषां भवति । विधृताः पृथग्भूता उपरिष्टात्सर्वे भवन्ति । -