पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 - सत्याषाढविरचितं श्रौतसूत्र- [७सप्तमप्रश्ने- ज्येष्ठाया एव ज्येष्ठया न विनेतरा इति शास्त्रात् । परार्थ कर्म कर्तव्यं ज्येष्ठयैव नचा- न्ययेति शास्त्राच्च । तस्यामविद्यमानायां विद्यमानासु या ज्येष्ठा सा ज्ञेया । अत्र ज्येष्ठत्वं विवाहकृतं नतु वयःकृतमिति । एतन्मूलमन्यतो द्रष्टव्यम् । सर्वा अक्षधुरः समन्त्रमेवानक्तीत्यर्थः । तेन पूर्वकल्प उत्तरयोधुरोस्तूष्णीमुपाञ्जनं सिद्धं भवति । दृष्टा- र्थत्वाच्चाऽऽवश्यकं चैतत् ।

आज्येन चेत्येकेषाम् ।

चकारः पदसमुच्चयार्थः । अन्यदाज्यं तस्मिन्पद आनीय तेन मिश्रितेन धूरञ्जनं कर्तव्यमित्यर्थः । अथवाऽऽदौ पदेनैवाञ्जनं कृत्वा पुनः केवलेनाऽऽज्येनैवानक्तीत्येवं वा समुच्चयः । अस्मिन्पले मन्त्रावृत्तिः । एकेषां मते समुच्चयस्य नित्यत्वमिति सूत्रतात्पर्यार्थः । तेनान्येषां मते नैमित्तिकत्वं सिद्धं भवति । पदस्य शुष्कत्व आज्येन मिश्रयित्वाऽञ्जनमवश्यं कर्तव्यं, पदनाशेऽन्यान्पांसूञ्छुद्धदेशस्थान्गृहीत्वाऽऽ. ज्येन मिश्रयित्वाऽञ्जनमावश्यकमिति । अथवा लौकिकेनाऽऽज्येनान्यान्पांसून्मिश्र- यित्वा तेनाञ्जनं कृत्वाऽन्येन संस्कृतनाप्यञ्जनमवश्यं कर्तव्यमेवेति । अत्र पत्नी कृत- कार्यत्वात्स्वस्थानं प्रति गच्छति । उक्तं च बौधायनेन-नयन्ति पत्नीमिति । बहुवचनं परिकर्म्युविजामन्यतमप्राप्त्यर्थम् ।

हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रूहीति संप्रेष्यति प्रवर्त्यमानाभ्यामनुब्रूहीति वा ।

होतारमिति शेषः । अत्रैवाऽऽह्वानमुक्तं बौधायनेन-द्वयन्ति होतारमिति । बहुवचनं ब्रह्मयजमानाध्ववन्यतमप्राप्त्यर्थम् । अत्र वैशेषिकं हौत्रमाश्वलायनीयमेव ।

त्रिरनूक्तायां प्राची प्रेतमिति समुद्गृह्णन्तः प्राची प्रवर्तयन्ति ।

त्रिरनूक्तायां होत्रा। उपस्थितत्वात्प्रथमैव त्रिरनूक्ता भवति। स्पष्टमेवापठदापस्तम्ब :- प्रथमायां त्रिरनूक्तायामिति । प्राची प्रेतमिति मन्त्रेण धुर्यवधुगधुरौ दक्षिणेन हस्ते- नोवं गृह्णन्तः प्राची अनसी नयन्ति । प्रशब्दो यथा शकटनयने शकटचक्राद्यङ्ग- स्याऽऽघातो न भवेत्तथा नयनं द्योतायतम् । बहुवचनोपात्ता अवयव एव नतु परिक- मिणः । मन्त्रवत्कर्मत्वात् । समुद्रुन्त इति शत्राऽनःप्रवर्तनसमकालत्वं समुद्ग्रहणस्य । तेन यावत्पर्यन्तमनःप्रवर्तनं तावत्पर्यन्तं समुद्गृहणम् । समुद्गृह्णन्त इत्यत्र संशब्दो दायेनोगृहणार्थः । उच्छब्द उर्ध्वग्रहणार्थः । जीह्वरतमित्यन्तो मन्त्रः ।

सुवाग्देव दुर्याꣳ आवदेत्यभिमन्त्रयते यद्यक्ष उत्सर्जेत् ।

यदि अक्षश्चक्रसंघर्षणेनोत्सर्नेच्छब्दं कुर्यात्तदा सुवागित्यभिमन्त्रयते । अक्षशब्द- मिति शेषः । अक्रन्ददग्निरित्यक्षशब्दमभिमन्त्रयत इत्यग्नौ दर्शनात् । एतच्च रक्षोपह- १.झ. अ. उत्सृजेत् ।