१ प०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६९७ ननार्थम् । यदन उत्सर्जत्यकन्ददित्यन्वाह रक्षसामपहत्या इत्यग्नौ श्रुतेः । एकवच- नादध्वरेवान कर्ता नतु प्रतिप्रस्थाताऽपि ।
यत्र वेदिमवक्रामतस्तद्दक्षिणस्य इविर्धानस्योत्तरस्यां वर्तन्यां वेद्यन्ते हिरण्यं निधायेदं विष्णुरिति जुहोति ।
स्फ्येनोद्धत्यावोक्ष्य हिरण्यं निघाय संपरिस्तीर्याभिजुहोतीति बौधायनः । यत्र यस्मिन्देशे वेदिमनसी अवक्रामतो वेदिमवक्रम्य गच्छतस्तत्तस्मिन्देशे दक्षिणस्य हविर्धा- नस्योत्तरस्यां वर्तन्यामुत्तरचक्रमार्गे वेद्यन्ते महावेवितमीप इत्यर्थः । पासुर इत्यन्तो मन्त्रः । तदित्यत्र सुपां सुलगित्यनेन सप्तम्या लुक् । अवक्रामत इति द्विवचनाद्वेद्यवक- पणं सहैव द्वयोः । अत्र दक्षिणग्रहणमुत्तरसूत्र उत्तरग्रहणं च कमार्थ दक्षिणहविर्धा- नोत्तरवर्तन्यधिकरणको होमोऽध्वर्युणा पूर्व कर्तव्य उत्तरहविर्धानोत्तरवर्तन्यधिकरणको होमः प्रतिप्रस्थानाऽनन्तरं कर्तव्य इति । अन्यथाऽत्रानियतिः स्यात् । अन्तवचनं वेदिप्रान्तसंलग्नदेशग्रहणार्थम् । उत्तरत्र प्रतिपस्थातृप्रहणात्पूर्वत्र यजुर्वेदेनाध्वर्युरिति- 'परिभाषाप्राप्तोऽध्वर्युः कर्ता।
इरावती धेनुमती इत्येवं प्रतिप्रस्थातोत्तरस्य ।
प्रतिशब्दोऽन्वर्थे । अध्वर्युमनु यागार्थ तिष्ठतीति प्रतिप्रस्थाता । प्रतिः सादृश्या- धको वा । अध्वर्युरिव यागार्य तिष्ठतीति प्रतिप्रस्थातेति । उत्तरस्येत्येव पाठो युक्तः सापेक्षत्वात् । उत्तरस्यामिति पाठस्त्वयुक्त एव । एवमित्यतिदेशादेवोत्तरवर्तन्याः प्राप्तौ तद्ग्रहणस्य व्यर्थत्वापत्तेः । प्रतिप्रस्थातृग्रहणमध्वर्युव्यावृत्त्यर्थम् । मयूखैरित्यन्तो मन्त्रः । उभयत्रापि दपिहोमधर्मः । नारन्योरन्तरागमने दोषः । तेनैव प्रत्यागमनम् । जुहोतिचोदितत्वात्स्वाहाकारः।
अध्वर्युर्दक्षिणस्य हविर्धानस्य कर्माणि करोति प्रतिप्रस्थातोत्तरस्य ।
यत्र द्विवचनं श्रूयते मन्त्रभेदश्च नास्ति तत्र साहित्यमेवेति बोधयितुमियं परिभाषा । एतयतिरिक्तस्थले तु एतदभावादेव साहित्यव्यावृत्तिर्भवति । एतादृशं स्थलं मेथीनिह - ननमेव । धर्मभेदादेतस्य पृथगुपादानम् । प्रकरणादेव विशेष्यस्य हविर्धानस्य लाभे पुनर्हविर्धानग्रहणं दक्षिणस्य हविर्धानस्य पश्चादक्षं द्रोणकलश सदशापवित्रं प्रयु- नक्ति उत्तरस्य नीड आहवनीयं तस्यैव प्रधुरे पूतभृतं पश्चादशं तित्र एकधनाः स्थालीरित्येतस्य पात्रप्रयोगस्य तत्तद्धविर्धानसंबन्धित्वादेतस्याः परिभाषाया अत्रापि प्राप्तिः स्यात्मा मा भूकिंतु हविर्धान संस्कारककर्मविषय एवैतस्याः परिभाषायाः प्रवृत्तिः स्यात्पात्रप्रयोगस्य तु हविर्धान संस्कारककर्मत्वाभावानात्र परिभाषायाः प्रवृ- तु त्तिरित्येतदर्थम् । । ११. ज. स. अ. 'पणाचक्रम इति ।