पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५८ सत्याषाढविरचितं श्रौतसूत्रं- [७सप्तमप्रश्न- विना तयोरारम्भाप्तमवेन प्रायश्चित्तपश्वनुष्ठानं विना सोमासंभवेनान्योन्याश्रयपरिहा. रार्थ कापेयपक्षमाश्रित्य पूर्व सांनाय्यमनन्तरं प्रायश्चित्तपशू इति केषांचिदुक्तिः परास्ता । सर्वथाऽपि तावसिद्धं विच्छिन्नसोमपीथस्यानालब्धव्रात्यपशोर्न सोम इति । विच्छिन्नसोमपीथपदार्थ उक्तो ब्राह्मणे-ऐन्द्राग्नं पुनरुत्सृष्टमाउभेत य आतृतीयात्पु- रुषात्सोमं न पिबेद्विच्छिन्नो वा एतस्य सोमपीथ इति । तत्र च त्रयः प्राञ्चस्त्रयः प्रत्यञ्च इत्यादौ प्राक्त्वेनोक्ता दीक्षावेदननामसुब्रह्मण्यादौ नामभिः संकीर्त्यमाना पित्रादि. त्रिपुरुषी तस्यां चरमः प्रपितामहस्तृतीयोऽभिप्रेतो नत्वात्मनस्तृतीयः पितामहः । कुतः, सोमपानोद्यतस्याऽऽत्मनस्तद्विच्छेदाभावात् । एतत्ते तत ये च त्वामन्विति. तिसृषु सक्तीषु निदधाति तस्मादातृतीयात्पुरुषान्नाम न गृह्णन्तीत्यादौ व्यक्तार्थत्वाच्च । तथाच विध्यर्थत्वमप्यत एव निदर्शनादवगन्तव्यम् । तदयमर्थो भवति यस्य पित्रादयस्त्रयः पुरुषाः सोमं न पीतवन्तः स सोमपीतार्थी-रेन्द्राग्नं पशुमालभेतेति । केचित्त द्विपुरुषविच्छित्ता. वप्ययमिष्यते । यथाऽऽह कात्यायन:-वसन्तेऽग्निष्टोम ऐन्द्राग्नं पुनरुत्सृष्टमालम्य द्विपुरुषाः सोमपीथिन इति प्राहुः । अन्ये तु पितुः पितामहस्य वोभयोर्वा सोमपीथामाव. ऐन्द्राग्न आलब्धव्यः सोऽयं व्रात्यपशुः पित्रादीनां त्रयाणामानन्तर्येण सोमपीथाभाव ऐन्द्रामनेष्वाऽऽश्विनं धूम्रललाममालभतेत्याहुः । अकस्य सोमपानाभावे य ऐन्द्राग्न उक्तः स न युक्तः । यस्य परौ द्वावलोमो स्यातां स ऐन्द्रामेनेष्ट्वा सोमेन यतेत्यगस्त्यसूत्रे द्वयोरसोमपीथत्व एव तस्योकैः । यस्य वेदश्च वेदी च.विच्छियेते त्रिपुरुषम् । स वै दुर्नामणो नाम ब्रह्मवादिषु गर्हितः ॥ इति स्मृतौ यागाध्ययनयोरुभयोरेव विच्छेदे दौाह्मण्यं मन्यमानाः सोममात्रविच्छेद आश्विनं नेच्छन्ति केचित् । अस्मिन्वचने चकाराम्यां व्यक्तसमुच्चयावगमादुभयवि- च्छेद एव भवत्याश्विनो नान्यतरमात्रविच्छेद इत्यन्ये । तदुभयमप्यसत् । आश्विनं धूम्रललाममालमेत यो दुमिणः सोमं पिपासेदिति प्रकृत्याश्विभ्यां पूर्वमसोमपाभ्यां पश्चात्प्राप्तसोमपानाम्यां दुर्ब्राह्मणस्य सादृश्यमपेक्ष्याश्विनावेव देवतां कर्तुं सोमपी. यस्य प्रदानमुपनातं च ब्रुवन्वाक्यशेषः सोपथिविच्छेद एवाऽऽश्विनं दर्शयति नाध्ययनमात्रविच्छेदेन वोभयविच्छेदे । तस्मादसत्यप्यध्ययनविच्छेदे सोमपीथमात्र. विच्छेद आश्विनः कार्यः । यत्तु स्मृतिवचनं तदन्यतरविच्छेदेऽप्युपपद्यते । अत्र प्रत्येक वाक्यपरितमाप्तिराश्रीयते श्रुत्यनुरोधाय तर्हि सत्यामपि वेद्यां वेदविच्छेद आश्विनप्र. सङ्गः।न। तस्य तु दुर्बाह्मणत्वं स्मयते परं तु नाऽऽश्विनाधिकारः । किंच वेदविच्छित्तौ वेदिविच्छित्तिरवश्यंभाविनी । अथापि नावश्यं भाविनी श्रद्दधानस्य साधुवृत्तस्योत्पत्ति- शुद्धस्य तस्य मूत्रकारैरविकारोक्तेः । नहि वैनुष्ये सत्येव ब्राह्मण्यं सुसंपादं भवतीति ।