पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पचपटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६८९ श्छन्नां परिवासयतीत्येतावदेव स्यात् । उत्तमाभ्यां पौर्वाह्निकोभ्यां प्रवोपसयां प्रचर्येत्युत्तरोत्तमत्वप्रयुक्तविधिबलात् । एतत्सर्व वारयितुं मध्यमाभ्यामिति । एवं च श्वोभूत इत्युत्तरान्वय्येव । नन्वेवं श्वोभूत इति वचनं व्यर्थमुत्तमाभ्यामित्यनेनैव सिद्धेरिति चेन्न । उदुम्बरशाखाभिश्छन्नां परिवासयतीत्येतदपि मध्यमोपलदिवस एवेतिबोधनार्थत्वेनैव सार्थक्यात् । अन्यथोत्तरदिनेऽपि कदाचिदनुष्ठानं प्रसक्तं स्यात् । नच मध्यमोपसहिवसे वेदिकरणेऽपि उदुम्बरशाखामिश्छन्नां परिवासयति श्वोभूत इत्येवमेवान्वयं स्वीकृत्य तदुत्तरदिवस उदुम्बरशाखामिश्छन्नां परिवासयतीत्येतावन्मात्र- मनुष्ठेयं तदुत्तरदीवस उत्तमपौर्वाह्निक्यादीति वाच्यम् । उपसहितदिवसस्य मध्ये कल्पनायाः सकलमूत्रविरुद्धत्वेनात्यन्तानुचितत्वात् । नच श्वोभूत इत्यत्र खण्ड- समाप्तस्तस्य पूर्वत्रैवान्बय इति वाच्यम् । एतस्य नियमस्य यथार्थ हविर्धानयोः प्राग्व- शस्य सदोहविर्धानयोश्चेत्यादौ व्यभिचारेणाप्रयोजकत्वात् । खण्डव्यवहारस्य भगवदा- चार्योच्छासनिबन्धनत्वात् । उच्छ्वासस्य नियतप्रमाणत्वाभावात् । छन्नामाच्छादिता परिवासयति निर्व्यापारेण रात्रि गमयति रक्षयतीति वा । परिकर्मिभिरिति शेषः । छन्ना रक्षयतीत्येनेन शाखानामपि रक्षणं गम्यते । नहि शाखानां रक्षणाभावे विशि- टाया रक्षणं भवति । श्वोभूतपदसाहचर्यादयमर्थो लभ्यते । एतदनन्तरमापराहिकप्रव- ग्र्योपसदौ । एवं त्रिरात्र५ सायंप्रातः प्रबर्योपसच्या प्रचरतीत्यनेनैव तयोः सिद्धेरत्रा- नुक्तिः । अन्तरा मध्यमे प्रवर्योपप्तदौ वेदि कुर्वन्तीत्यापस्तम्ब एतत्स्पष्टमाह ।

श्वोभूते ।। १४ ।। उत्तमाभ्यां पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्यार्धव्रतं प्रदाय तदानीमेवाऽऽपराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरति ।

श्वोभूते मध्यमोपसदिवसोत्तरदिवसे श्वोभूते श्वस्तनरूपे दिवस इत्यर्थः । श्वोभूते पौर्वाह्निकीभ्यां प्रवर्योपसच्या प्रचर्येत्येतावत्येवोच्यमाने द्वादशाहायहीनानां तिल एवं साहस्योपसदो द्वादशाहीनस्येति श्रुत्या द्वादशोपतत्कत्वस्योक्तत्वेन मध्यमोपसदिवस. चतुष्टये प्रथमद्वितीयतृतीयदिवसान्यतमदिवसेऽपि वेदिमानादिच्छादनातकर्मणः प्राप्त- त्वेन वेदिच्छादनोत्तरप्रभृतिषु दिवसेष्वपि तदानीमेवाऽऽपराहिकीम्यां प्रवर्योपसभ्यां प्रचर्येत्यस्य प्राप्तिः स्यात्तां वारयितुमुत्तमाभ्यामिति वचनम् । तथा च मध्यमोपसद्दिवास- चतुष्टये वेदिकरणेऽपि द्वादशोपदिवसान्तिमोपसदिवस एव तदानीमेवाऽऽपरालि कीम्यां प्रवर्योपसच्या प्रचर्येति विधिनतु वेदिकरणदिवसोत्तरप्रभृतिषु दिवसेष्विति सिध्यति । अर्धवतप्रदानतात्कालिकावार्योपसदनुष्ठानविधानार्थ उत्तमाभ्यामित्याद्यनुवादः । श्वोभू- तवचनमन्तिमपौर्वाह्निकापराहिकप्रवग्र्योपसत्प्रभृति हविर्धाने यजमानो राजानं गोपा- यतीत्यन्त कमैकदिनसाध्यमिति प्रदर्शयितुमिति द्रष्टव्यम् । अन्यथा प्रवर्योपसद्यमानं ल्यब्बोधितसंबन्धाद्वत्सापाकरणान्तं चान्तिमोपसद्दिवसेऽवशिष्टमुत्तरदिवप्त इत्यनियमः