पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७७ । १ च० पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।

एवं त्रिरात्रꣳ सायंप्रातः प्रवर्ग्योपसद्भ्यां प्रचरति ।

एतावता सामान्यत उपसत्प्रयोगः कथितः । अधुना प्रवर्योपसत्संख्या तहिवाससंख्या चोच्यते-तिसृणां रात्रीणां समाहारस्त्रिरात्रम् । अहःसर्वेकदेशसंख्यातपुण्याच्च रात्रे- रिति सूत्रे चकारेण तत्पुरुषस्याङ्गुलेः संख्याव्ययादेरिति पूर्वसूत्रस्थसंख्यानुवृत्तिलाभेन संख्योत्तरभूतरात्रिशब्दादच्प्रत्ययः । द्विगुरेकवचनमित्येकवद्भावः । द्विग्वर्थे समाहारे स नपुंसकमिति नपुंसकत्वम् । द्विगुस्तु संख्यापूर्वः समासः संख्यापूर्वो द्विगुरिति सूत्रात् । अत्र रात्रिशब्दो दिवसपरः सायंप्रातःशब्दसममिव्याहारेण । नन्वेवं व्यहमित्येव वक्तव्यं लाघवात् । ऋजुमार्गेण सिध्यतो वकणायोगाच, तथा च त्रिरात्रमित्येवं वचनं किमर्थमिति चेत्सत्यम् । उपसदिष्टे रात्रौ क्रियायामपि दोषाभावं ज्ञापयितुं तथोक्त. रावश्यकत्वेन वैयर्थ्याभावात् । दोषस्तु दिवाकीयों वषट्कार इत्याश्वलायनसूत्रसिद्धः । प्रवर्यस्य तु अनारब्धत्वेऽपि रात्री प्रचार इत्ययमर्थस्तु प्रवर्ग्यसूत्रे वक्ष्यमाणेन ज्ञाप- केनैव सेत्स्यति । योऽयमुक्तः प्रयोगः स उपस्थितत्वात्प्रातःकालसंवन्धी भवति । स एवेतरेष्वपि प्रयोगेषु भवति । तत्र सायंशब्दस्योक्तप्रातःकालसंबन्धिप्रयोगोत्तरं तस्यै- वोपस्थितेः प्रथममुपादानम् । प्रथमेऽहनि सायं द्वितीयेऽहनि प्रातः सायं च तृतीयेऽ- हनि प्रातः सायं च । एवमुक्तेन प्रकारेण प्रवर्ग्यश्चोपसच्च प्रवर्योपसदौ ताभ्यां प्रचर- तीत्यर्थः । अध्वयोर्मुख्यत्वात्तमभिप्रेत्यैकवचनम् ।

सुपूर्वाह्णे पौर्वाह्णिकीभ्याꣳ स्वपराह्ण आपराह्णिकीभ्याम् ।

प्रवग्र्योपसच्या प्रचरतीत्यनुषज्यते । मुष्ठु पूर्वाह्नः सुपूर्वाह्नः । सुष्ठ अपराह्नः स्वप. । राः । सुपूर्वाशब्देन पूर्वाह्नपूर्वार्धात्मकः कालो गृह्यते । स्वपराशब्देनापराबो- त्तरार्धात्मकः कालो गृह्यते । तत्राप्युयोत्तरं घटिकाद्वयमस्तात्पूर्व घटिकाद्वयं त्याज्यम् । अत्र द्वेधा त्रेधा वा विमागः। पूर्वाह्न भवे पौवाहिक्यौ । आपराहे भवे आपराह्निक्यौ । उपसदाहतिव्यवस्थामाह-

या ते अग्नेऽयाशया तनूरिति प्रथमेऽहनि सायंप्रातः स्रुवप्रदानां जुहोति ।

प्रातश्च सायं चेति सायंप्रातरित्येवमेव विग्रहः । धर्मादिष्वनियम इति वातिकादयं साधुः । धर्मादिराकृतिगणः । उभयकालवाचिशब्दयोः सह संप्रयोगे सायंशब्दस्यैव बाहुल्येन प्रथम प्रयोगः । तत्राग्निहोत्रहोमादौ यथास्थितमेव । तत्र सायमारम्यैवोप- क्रमो दृश्यते । वैश्वदेवे तु अथ सायंप्रातः सिद्धस्य हविष्यस्य जुहुयादित्याचलायनेन सायंप्रातरित्युक्तेऽपि प्रमाणान्तरानुरोधेन प्रातरारम्यैवोपक्रमो दृश्यते । प्रकृतेऽपि . १ ख, वक्रेण । ८६