पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" च०पटलः ] गोपीनाथमट्टकृतज्योत्स्नाव्याल्यासमेतम् ।

अग्नीनन्वाधाय षोडशदारुमिध्मꣳ संनह्यति ।

अग्न्यन्वाधानवचन प्रयोजनं प्रायणीयावज्ज्ञेयम् । सनहनं संमरणोपलक्षणम् । इदं

च षोडशदारुत्वमातिथ्यायां परिहिताः परिधयस्ते तथैवोपसत्सु भवन्तीति पक्षे । अग्नीनन्वाधायेति त्यविध्माहरणाव्यवधानार्थः । तेन परिस्तरणाद्यर्थदर्भच्छेदनमिध्माह- रणानन्तरमेव भवति नात्रेति । नतु पौर्णमासतन्त्रत्वख्यापनार्थः । तस्य सादृश्याद्वि- कारः स लिङ्गेन गम्यतेति सूत्रादुपांशुयानसत्त्वरूपलिङ्गेनैव सिद्धेः । इध्मसंभरणमन्त्र एवमूहः-यत्कृषणो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् । ततस्त्वा षोडशधा संभ. रामि सुसंभृता । एका समिधं यज्ञायुरनुसंचराम् । उपवेष संमरामि सुसंभृतेति । उपवेषशब्दविवक्षयाऽनुसंचरमित्येव वा । अपरिहितत्वपक्षे तु इध्मे संभरणं परिधीनां पृथगेवामन्त्रमित्युक्तमेव प्राक् । संभृतत्वान्न मन्त्रेण संभरणम् ।

वेदं कृत्वाऽग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳस्तीर्त्वा यथार्थमाज्यपात्राणि प्रयुनक्ति स्फ्यꣳ स्रुवꣳ स्रुच आज्यस्थालीं येन चार्थः ।

वेदं कृत्वेति क्त्वाप्रत्ययान्तानुवादप्रयोजनं प्रायणीयावद्रष्टव्यम् । उपवेषस्य करणं पात्रप्रयोगकालेऽपि न तस्य प्रयोजनाभावात् । अग्नीन्मरिस्तीर्येत्यादि उलपराजीर स्तीवेत्यन्तं कृतव्याख्यानम् । यथार्थं यथाप्रयोजनम् । अर्थ प्रयोजनमनतिक्रम्य यथार्थम् । आज्यार्थानि पात्राणि आज्यपात्राणि । आज्यवचनमाज्यार्थपात्राणामुक्ताना. मनुक्तस्य च प्रथम प्रयोगस्तदनन्तरं तदितरपात्रप्रयोग इत्येवं क्रमविशेष सूचयितुम् । आज्यपात्रेषु यथार्थशब्दोपादानं निषेचनपात्रस्यानुक्तस्यापि प्रयोगार्थम् । कपालशूर्प निवृत्तावत्स्मयेन सहत्त्वमग्निहोत्रहवण्याः प्राप्तं तद्वारयितुं स्फ्यस्यानाज्यपात्रवेनाss. ज्यपात्रप्रयोगानन्तरं प्रयोग वारयितुं च स्फ्यादीनां वचनम् । नन्वेवं स्फ्यमाज्यपा- त्राणि येन चार्थ इत्येव लाघवेन वक्तव्यम् । तथा च पृथक्पृथगुद्देशो व्यर्थः, सवस्या- प्याज्यसंबन्धित्वादाज्यपात्रेषु ग्रहणं भविष्यति, निषेचनपात्र प्रयोगार्थ यथार्थग्रहण- मपि न कर्तव्यं भवतीति चेत् । सत्यम् । आज्यपात्रत्वसाजात्येनाऽऽज्यपात्रसमूहात्मक. मेकं पात्रं स्फ्यश्चेत्येवं द्वंद्वत्वापत्तेः(तिः) । अतः पृथक्पृथग्रहणम् । येन चार्थ इति वचनोपात्तपात्रत्रयस्य तु अग्निहोत्रह्वणी दर्भ इत्येवं द्वंद्वम् । सूत्रान्तरे द्वंद्वतार्थ दर्भप्रयोगस्य विहितत्वात् । वेदं वेदानमिति द्वंद्वम् । अथवाऽग्निहोत्रवण्या सह वेदो वैदामेण सह दर्भ इत्येवं द्वंद्वसंपत्तिः । अथवा वेदवेदाने एकमेव द्रव्यं वेदानस्य तज- न्यत्वात् । तेनाग्निहोत्रह्वणी वेदवेदाने इत्येकमेव द्वंद्वमिति द्रष्टव्यम् । निषेचन- पात्रेण सह दर्भ एव द्वंद्वतार्थ भवति । नन्वेवं स्फ्य५ स्नुवमाज्यपात्राणीत्येवमेवास्तु किमर्थं त्रुगादिग्रहणमिति चेत्सत्यं, खुचां समुदायत्वेनैकपात्रत्वं वक्तुमुपादानात् ।