पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ चपटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ६६३

यदातिथ्याया बर्हिस्तदुपसदां तदग्नीषोमीयस्य तत्प्रस्तरपरिधि ।

। यदातिथ्याया बहिस्तदुपसदामपि बहिर्भवति तदेवाग्नीषोमीयस्य पशोरपि । अनेनाऽऽतिथ्योषसदोषोमीयाणां साधारण्येनैकं बर्हिः प्रस्तरः परिधयश्चेति प्रतिपा- यते । नच यादृशमाश्ववालादिकमातिथ्यायां ताहगेवोपसदग्नीषोमीययोरित्यनेन प्रति- पाचते नतु साधारण्यमिति वाच्यम् । तथा सति विधेः कर्मापवर्णित्वादर्थान्तरे विधि- प्रदेशः स्यात् । अपि वोत्पत्तिसंबन्धोऽविशिष्टानां प्रयोमैकत्वे हेतुः स्यादितिनैमिनिन्या. यविरोधापत्तेः । अयं च न्यायश्चतुर्थाध्याये द्वितीयपादे वर्तते । एवं चैकमेव बहि: प्रस्तरः परिधयश्चेति । सूत्रार्थस्तु विधेविधिगम्यातिथ्यासंबन्धस्य बर्हिषः कमीऽऽति. थ्यारूपं तस्यापवर्गे समाप्ती, अपवर्णित्वादहिषोऽपवृक्तत्वात् , अर्थान्तरे मिन्न उपस- हिषि विधिप्रदेशो धर्मातिदेशः स्यादिति पूर्वसूत्रार्थः । अपि वेति पूर्वपक्षव्यावर्त- नाय । अविशिष्टानामातिथ्योपसदग्नीषोमीयाणां त्रयाणामपि उत्पत्तिर्हिष उत्पत्ति- स्तत्संबन्धादातिथ्याया बहिस्तदुपसदां तदग्नीषोमीयस्येत्यनेन प्रदर्शितः स बहिष उपादानसंस्काररूपप्रयोगस्यैकत्वे हेतुर्भवतीत्युत्तरसूत्रार्थः । तथाच त्रयाणामप्यर्थे सक- देकमेव बहिरुपादेयं संस्कार्य चेति सिद्धान्तार्थो ज्ञेयः । यदातिथ्याया बहिरित्यस्मि- न्सूत्रे बहिरित्युपलक्षणं विधृत्योः । अत्र ज्ञापकमातिथ्येष्टाविक्षुशलाके विधृती इत्यस्मि- न्मूत्र उक्तमेव । अत्र प्रस्तरग्रहणमन्यत्र बर्हिग्रहणेन प्रस्तरस्य ग्रहणं.न भवतीतिज्ञा- पनार्थम् । तेन चातुर्मास्यादिषु प्रसून बहिस्त्रीकपालान्संनदै कभ्यं पुन संनह्यतीत्यादौ न प्रस्तरस्य ग्रहणम् । शरमयं बहिरित्यादावपि आतिथ्यावहिरादीनामातिथ्यादित्र- यार्थमुत्पत्तिरतस्तान्यादाय तूष्णीसेव संनह्य पुनः पुनः प्रयुञ्जीत । तत्प्रस्तरपरिधीति बहिर्विशेषणम् । प्रस्तरश्च परिधयश्च प्रस्तरपरिधयः, त एवं प्रस्तरपरिधयो यस्मिन्ब- हिषि तर्हिस्तत्प्रस्तरपरिधि । अनेन प्रस्तरवत्परिधीनामपि बहिण्येव सननं भवति न विध्मे । तेन षोडशदारुत्वमेवेमस्य । अथवा तत्प्रस्तरपरिधीति क्रियाविशेषणम् । सा च क्रिया संनहनरूपा । प्रस्तरश्च परिधयश्च प्रस्तरपरिधयः स एव प्रस्तरस्त एवं परिधयो ययोबहिःसनहनेमसंनहनरूपक्रिययोर्यथाक्रमं यथा भवति तथोभयनिहनत्व- सानात्येन मिलित्वा तत्प्रस्तरपरिधि संनहनं भवति । बर्हिः संनहनं तत्प्रस्तरम् , इध्म- संनहनं तत्परिधि, तेनैव प्रस्तरेण सह वाह:सनहनं, तैरेव परिधिमिः सहेमसंनहनं भवतीति तात्पर्थिः । अथवोपसदनीषोमीयात्मकक्रियाविशेषणम् । पुंलिङ्गप्रथमाबद्दु. वचनविशिष्टयच्छन्दसहित षष्ठयन्तमातिथ्यापदमत्रानुवर्तनीयम् । तथा चायमर्थो भवति य आतिथ्यायाः प्रस्तरो ये च परिधयस्त एवोपसत्सहिताग्नीषोमीयात्मककर्मणि भवन्तीति । समासस्तु पूर्वव देव । संभरण तु परिधीनां पृथगेवामन्त्रम् । सहैव संभरणे मन्त्रविरोधः स्यात् । नचैकविशतिधेत्यूहोऽस्तु तथा च सहैव संभरणे विरोधो न । पोडशदारुमिधर्म संनह्यतीति सूत्रं तु परिधीनां परिहितत्वपक्षामिप्रायेण योननीयमिति