सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६४ सत्याषाढविरचितं श्रौतसूत्रं- [सप्तमप्र- याच्यम् । आतिथ्यायां मन्त्रेण संभृतानां पुनर्मन्त्रेण संभरणायोगात् । अन्यथाऽऽति. ध्यावहिषोऽपि पुनमन्त्रेण संभरणापत्तेः । इष्टापत्तौ मैमिनीयन्यायविरोध: आपद्येत । अतः संभरणममन्त्रमेवेत्येव युक्त, संनहनमप्यनेनैव प्रकारेण तूष्णीमेव ।

स्तीर्णं प्रस्तरबर्हिरुपसत्सु शयाः परिधयः ।

पक्षान्तररामिप्रायेणेदं सूत्रं योजनीयम् । पूर्व सूत्र पुनः पुनस्तान्येवोपादाय प्रयो- ज्यानीत्येतादृशार्थपरम् । आतिथ्यार्थ स्तीर्ण बहिस्तथैव स्थापनीयं तच्च प्रस्तरेण संयुक्तमेव स्थापनीयम् । अत्र प्रस्तरग्रहणाभावे प्रस्तरस्य स्थानादादाय पुनः पुनः स्थापनं स्यात्तन्मा मूदित्येतदर्थ शया आतिथ्यायां ये परिहिताः परिधयस्ते तथैव स्थापनीया इति न तु पुनः पुनरावायतत्सर्वे प्रयोज्यमिति स्तीर्ण प्रस्तरबहिरित्यतस्य सूत्रस्यार्थः । यदातिथ्यायाः प्रस्तरबार्हः स्तीर्ण शयाः परिधयस्तथैवोपसदां तदग्नीषोमी- यस्य चेति लाधवादेव बहिषः स्तीर्णत्वसिद्धौ परिधीनां परिहितत्वसिद्धौ च यदातिथ्याया बहिरित्यारम्य शयाः परिधय इत्यन्तं गुरुसूत्रकरणं व्यर्थं स्यादतोऽर्थद्वयबोधकत्वमेव वक्तव्यम् । उक्तं चार्थद्वयमापस्तम्बेन-आतिथ्यावहिरूपसदामग्नीषोमीयस्य च तदेव प्रस्त- परिधि तत्स्तीर्ण बहिस्तत्परिधिताः परिचय इत्येक इति । तदेव प्रस्तरपरिधी- त्यन्तं पुनःप्रयोगाभिपायेणैव तद्याख्यातृभिर्व्याख्यातम् । तत्स्तीर्णमित्यादिकं तु पुनःप्र. योगामावामिप्रायेणेति । परिचिताः परिहिता इत्यर्थः । छान्दसोऽयं प्रयोगः । स्तीर्ण प्रस्तरेण युक्तं च बर्हिरुपसत्सु भवति परिधयः शयाः परिहिता भवन्ति । अग्नीषोमाये तु देशभेदात्पुनः प्रयोगः सूत्रोक्तः । प्रयोगक्रमस्तु स्तीर्णपक्षाभिप्रायेण द्रष्टव्यो गृहमे- धीयप्रयोगवत् । यदातिथ्याया बहिस्तदुपसदामग्नीषोमीयस्य चेत्येतावतैव सिद्धे पुनस्त. च्छब्दोपादानमर्थविशेषमपि द्योतयति । अग्नीषोमीयस्याऽऽतिथ्यावहिरेव बर्हिस्तस्य स्तरणं यत्र कर्तव्यं भवति तद्देश एव वेदिकार्यकरो न कृत्स्ना महावेदिशिते । तेनोत्त- रवेदिहविनियोर्मध्य एव यावत्पर्यन्तमास्तृतं पश्वर्थमातिथ्यानाहर्भवति तावति प्रदेश एव वेदिप्रयुक्तकार्याणीति । एतदभिप्रेत्यैव वक्ष्यति सूत्रकारः-अपरेणोत्तरवेदि मन्त्रेण बर्हिः स्तुणातीति । कृत्स्नस्योत्तरवेदितः पश्चिमभूतस्य महावेदिप्रदेशस्यैनपा व्यावृत्तिः क्रियते । तदग्नीषोमीयस्य चेत्यग्नोषोमीयवचनं सवनीयादिव्यावृत्यर्थम् । तेन सवनी- यादौ वेदिप्रयुक्त कार्याणि महावेद्यामेवेति ज्ञेयम् । स्पष्टं चैतत्सूत्रान्तरे- अग्नीषोमीय उत्तरवेदिहविर्धानयोर्मध्यप्रदेशोऽसंचरो वेदिस्तत्र प्रोक्षणबहिःस्तरणादीति । अग्नीषो- मीय इति सप्तमी । असंचर इत्यनेनोत्तरभागो द्वारं च व्यायते। संचरोऽत्र लौकिकः । न विद्यते संचरो यस्मिन्प्रदेश इत्यसंचरः। इदं चोत्तरवेदिहविर्धानमध्यप्रदेशविशेषणम्। उपप्तस्वितिवचनमुपसत्स्वेव प्रस्तरयुक्तं बर्हिः स्तीर्ण नाग्नीषोमीयेऽपि । तेनाग्नीषोमाये बहिरास्तरणाव्यवहितोत्तरमेव प्रस्तरयुक्तमिति बहिर्विशेषणसिद्धं प्रस्तरासादनं न किंतु स्वस्थान एव।