पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५६ सत्यापाढविरचितं श्रौतसूत्रं- [सप्तमप्रक्षे-

अदित्याः सदोऽसीति तस्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणाति ।

तस्यां प्रतिछापितायामासन्याम् ।

प्रत्तꣳ राजानमदित्याः सद आसीदेति तस्मिन्नासादयति ।

प्रत्तवचनादन्यस्मै प्रदानं सिद्धं तच्चाऽऽसन्दीस्थापनात्पूर्व तेन विना तस्य कर्तुमश- क्यत्वात् । तस्मिन्नास्तृते कृष्णानिने ।

वरुणस्यर्तसदनमासीदेति वा ।

अनेन मन्त्रण वा कृष्णाजिन आसादनम् ।

वनेषु व्यन्तरिक्षं ततानेति वाससा परिश्रयति ।

वाससा महता प्रागारम्य परिश्रयति । प्रादक्षिण्यं परिभाषासिद्धम् ।

वरुणोऽसीति राजानमभिमन्त्रयते वरुणाय त्वेति वा । ।।

सष्टम् ।

एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम्। स नः शर्म त्रिवरुथं वि यꣳसत्पातं नो द्यावापृथिवी उपस्थ इति वारुण्यर्चा राजानं परिचरति ।

वारुण्यतिवचनमत्र क्रीत उपनद्धः सोम एव वरुणशब्दवाच्यो नतु वरुणदेवतापर इतिश्रुतिसिद्धोऽर्थ इति प्रदर्शयितुम् । सा च श्रुतिर्वारुणो वै क्रोतः सोम उपनद्ध इति । अस्यां श्रुतौ वारुण इत्ययं तद्धितः स्वार्थे द्रष्टव्यः । वरुणो वा एष यजमानम. म्येति यत्कोतः सोम उपनद्ध इतिश्रुत्यन्तरानुरोधात् । वारुणीत्यत्र तस्येदमिति मूत्रादण् तदन्तत्वान्डोप् । अचेतिवचन प्रयोजनमतिच्छन्दसर्चेत्यत्र यथोक्तं तद्वदत्रापि क्षेयम् । परिचरति गन्धपुष्पादिभिरुपचारैः पूजयति नमस्करोति च |

यत्र क्व चाऽऽसीदेदैतयैवाऽऽसीदेत् ।

यत्र क च वैधे यादृच्छिके वा राजानं प्रति गमन एतया वारुण्य चैव गच्छेत् । उपविशति चेद्राजसमीपे तदैतयैव तत्समीपमूपविशेञ्च । तथा सूत्रान्तरे-वारुण्यर्चा राजानं पूजयेदेतयैव राजानमभिसपैदुपविशेच्चेति । अत्र यजमानो राजानं मधुपर्केण पूजयति । गोमधुपर्का) वेदाध्याय्याचार्य ऋत्विक् श्वशुरो राजा वा धर्मयुक्त इति धर्मसूत्रे राज्ञो मधुपर्कपूनाया विहितत्वात्सोमस्यापि राजत्वात् । अथास्मै मधुपर्क च प्रागुरिति बौधायनसूत्राच मधुपर्कपूना । तत्र प्रतिवचनानां लोपः । अध्वर्युर्वा तानि वदेत् । तामध्वर्युषिशास्तीति बौधायनसूत्रेऽध्वर्युकर्तृकताया विशसने दर्शनात् । एतस्य कलौ निषिद्धत्वादुत्सर्ग एवेदानीम् ।