पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्रं- [सप्तमप्रमे- रूपं विष्णुमरुत्स्महि वयं संपादितवन्तः कल्पितवन्त इति यावत् । बृहस्पति छन्दा सीत्युभयत्रापि स्तोममरुत्स्महीत्यन्वेति । व्यापनशीलो विष्णुः सामर्थ्यप्रदत्वेनास्माकम- नुकूलः । बृहस्पतिर्बुद्धिपदातृत्वेनास्माकमनुकूलः । छन्दांसि च्छादकत्वेनास्माकमनुकू- लानि । एतेष्वनुकूलेषु सत्सु शक्तत्वे किमाश्चर्य भो. यजमाना अस्मात्पदेशाज्झटिति उत्थाय यजूषि पर्वता यजुर्यो यजूरूपेम्पः पर्वतेभ्यो यूयं व्यनिहत गच्छत । लका- रव्यत्ययः कर्तव्यः । तेन प्रार्थनरूपो लिङर्थोऽत्र भवति गच्छतेति । पर्वतेषु यजूरूपत्वं विप्रकीर्णत्वसाम्यात् । यथा यजुःषु पादासंबद्धत्वाद्विप्रकीर्णत्वं तथा पर्वतेषु दुर्विगाव- भूमिकत्वाद्विप्रकीर्णत्वम् । एवं च यरूपत्वं पर्वतेषु केनापि सादृश्येनोपपन्नं भवति । पर्वता इति पञ्चम्यर्थे प्रथमा । दुस्तरणाः सतीरप्यपः सुतरणाः सुष्छु ततुं योग्या अता- रिषमुत्तोऽस्मीत्यर्थः । अथवाऽतारिषमित्यस्य लकारव्यत्ययं कृत्वा तरिष्यामीत्येव- मर्थः कार्योऽर्थानुरोधात् । विष्णु स्तोममित्यध्वर्युः प्रत्याह । एतान्यदृष्टार्थानि प्रश्न- प्रतिवचनानि । पर्वता अनिहतेति लिङ्गात्पर्वते क्रय एतानि । एतेन गिरौ कयोऽनु. ज्ञातो भवति।

स्वानभ्राजेति सोमक्रयणाननुदिशति ।

खानभ्राजादयः सप्त गन्धर्वास्तानुद्दिश्य सोमक्रयणान्सोमक्रयताधनीभूतान्पदा- ननुदिशति संकल्पयतीत्यर्थः । अत्र ब्राह्मणम्-खानभ्राजेत्याहैते वा अगिल्लोके सोममरक्षन्तेभ्योऽघिसममाहरन्यदेतेम्यः सोमक्रयणान्नानुदिशेदको तोऽस्य सोमः स्या- नास्यतेऽमुस्मिल्लोके सोमय रक्षेयुर्यदेतेभ्यः सोमक्रयणाननुदिशति कोतोऽस्य सोमो भवत्येतेऽस्यामुगिलोके सोम रक्षन्तीति । दमन्नित्यन्तो मन्त्रः । तदेकया क्रयेऽप्येषा वः सोमक्रयणी तार रक्षध्वमित्यूहेनेति कश्चित् । वस्तुतः प्रकृताबूहनिषेधात्पूजार्थं बहुवचनं भविष्यति ।

रुद्रस्त्वाऽऽवर्तयत्विति सोमक्रयणीमावृत्यान्यया गवा निष्क्रीय यजमानस्य गोष्वपिसृजति ।

आवर्तने प्रादक्षिण्यं परिभाषासिद्धम् । सोमक्रयणी गामावृत्य पराङ्मुखी कृस्वाऽ- न्यया सोमक्रयणीव्यतिरिक्तया गवा निष्क्रीय तां गां सोमविक्रयिणे दत्वा यजमा- नस्य या गावस्तासु गोषु तां सोमक्रयणीमपिस्नति मेलयतीत्यर्थः ।

पृषता वरत्राकाण्डेन सोमविकयिणमपक्षामं नाशयति ।

पृषता बिन्दुमता वरत्राकाण्डेन चर्ममयरज्जुकाण्डेनापक्षामं परोक्षं नाशयति गमयति ।

लोष्टैर्घ्नन्ति लकुडैर्घ्नन्तीत्येकेषाम् ।।। ८ ।।

इति हिरण्यकेशिसूत्रे सप्तमप्रश्ने द्वितीयः पटलः ।