पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७१ तृ० पटेलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । इत्यर्थः । तादृश्येन वत्सापाकरणादिना तु दहिोमत्वात्स्वधर्मस्यातिदेशो निराकृतः स्वेनैव । अत्रायं प्रयोगकमः-यजमान वाच यच्छेत्युक्त्वा वाग्यतः पात्राणीत्यादि । ततो यथार्थनिर्वापादि त्रिष्फलीकृत्य प्रक्षालनं निनीय धृवाऽसीति स्थालीमुपधायाधिश्रयण. काले तु न तण्डुलानुत्पुनाति स्थाल्यां शाखापवित्रवत्यां तूष्णीं दोहयित्वाऽनुत्पूतानेव तण्डुलानोप्य अपयति । श्रपणपक्षे तु न शाखाहरणं न शाखापवित्रकरणमुपधाय स्थाली लौकिकेन कर्मणा गां दुग्ध्वा तत्पयो दर्भपवित्राभ्यां यजुषोत्पूय तत्स्थायां निक्षिप्यानुत्पूतानेव तण्डलानोप्य अपयति । आपस्तम्बस्यैव समन्त्रदोहपक्षस्तृतीय उक्को नान्यैर्भरद्वाजादिसूत्रकारैर्नाप्यस्मदाचार्येण प्रथमं शाखाहरणादिपक्ष एव सर्व समन्त्रं केचिदाहस्तश्चिन्त्यम् ।

दक्षिणाग्नौ प्रतिवेशमोदनं पचति ।

पत्ये स्त्रीकुमारेभ्यश्च प्रतिवेशमोदनं पचतीत्युक्तं वैखानसेन प्रतिवेशमोदनं दक्षि. जानौ लौकिकेन कर्मणा पचति ।

स्फ्यमादाय स्तीर्णाया वेदेर्लोमभ्योऽधिस्तम्बयजुर्हरति ।

सांतपनेष्टौ न बहिरनुनहरतीत्युक्तमतस्तस्मिन्स्तीर्ण एवं बर्हिषि लोमम्योऽवयवे. म्योऽधि उपरि स्तम्बयजुहरति ।

उत्तरं परिग्राहं परिगृह्य संप्रैषेण प्रतिपद्यते ।

स्तम्बयजुर्हरणेन वेदिकरणमुक्तम् । स्पष्टं,

यदन्यदिध्माबर्हिषः पत्नीसंनहनाश्च तत्संप्रेष्यति ।

न पत्नीर संनह्यति न सानिधनीरन्वाहेति वचनाहर्हिषः स्तीर्णत्वादिध्मस्याभावा- दित्यर्थः ।

यत्प्रागाज्यग्रहणात्तत्कृत्वा ध्रुवायामेव गृह्णाति ।

न प्रयाजा इज्यन्ते नानूयाना नाऽऽघाराविति वचना पायामेवेत्युक्तम् ।

प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य वेदिं प्रोक्ष्य प्रोक्षणावशेषं निनीय पवित्रे अपिसृज्प ध्रुवाꣳ स्रुवं च सादयति ।

दहोमत्वादपूर्वकर्मान्तरविधानार्थमेवमुक्तं वेद्यामेवाऽऽस्तीर्णायामेव प्रोक्षण्यव. शेषमित्यादि।

एषाऽसददिति मन्त्रꣳ संनमति ।

एता असदन्निति मन्त्रम् । गतम् । ख.ग.प.च.ट.गा।