पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

170 °*: } महादेवकृतवैजयन्तीव्याख्यासमेतम् । मलोपश्चान्दसः । पञ्चम्यां पौर्णमास्यां क्रियमाणानां महाहविष एव चतुर्ष मासेष्वती- सेषु क्रियमाणस्वात्तस्यैवाङ्गेष्टिभिः सह यहकालता । साकमेधाः साकर सूर्येणेत्यादिना विहिताः । अतः साकमेधप्रधानान्यः सह यह साध्यानीत्यर्थः । ततश्चतुर्दश्यां सूर्यो- दयात्प्रागुपक्रमः।

अग्नयेऽनीकवते पुरोडाशमष्टाकपालं निर्वपति साकꣳ सूर्येणोद्यता साकꣳ रश्मिभिः प्रचरन्तीत्येकेषां मरुद्भ्यः सांतपनेभ्यो मध्यंदिने चरुं न बर्हिरनुप्रहरतीत्येकेषामपराह्णे गृहमेधीयाय वत्सानपाकरोति यावन्तो यजमानस्यायजुष्केण वत्सानपाकरोतीत्येकेषाम्।

उद्यतोदयमागच्छता निर्वापोऽथवा प्रधानप्रचारः । उद्यद्भिः प्रथमरश्मिमिरिति यावत् । यावन्तो यजमानस्य वत्सास्तान्सर्वानपि पुंस्त्वमविवक्षितमेकशेषासिद्धमिष्टिः । अपराह्ने स्पष्टं गृहमेधीयकर्मणे चरवे वा गृहमेधिनो देवता यस्य तत्तथा । यद्यपि विशिष्टा देवता तथाऽपि विशेष्येणैव नामता वैमृधवत् । अतो न देवतायै पयसे वत्सापाकरणं किंतु परुश्रपणार्थ यत्र क्रियते तत्र लौकिकवत्सापाकरणमित्युक्तम् । भयजुष्केण वत्सानपाकरोतीत्येकेषाम् । इषे त्वेत्यादि यजुर्यत्र न क्रियते कर्मणि सादृशेन तूष्णोकेन कर्मणा वत्सापाकरणमात्रं दृष्टार्थमेव कर्तव्यम् । तत्र न शाखा नित्या पूर्ववकिंतु सांनाय्ययजुभिर्विना तूष्णी शाखामाहृत्य तूष्णीमपाकरोति । एत. स्माज्ज्ञापकात्केचिदाहुः पक्षे मन्त्ररिति तच्च दविहोमत्वाचावदुक्तमेव नहि लिलेना- तिदेशानुमानं दविहोमेऽस्ति ।

सायꣳ हुतेऽग्निहोत्रे गृहमेधीयस्य तन्त्रं प्रक्रमयति ।

स्पष्टम्।

तत्र यावत्क्रियते तद्व्याख्यास्यामः ।

तस्य दर्विहोमत्वस्य न्यायशास्त्रे निर्णीतत्वान्नातिदेशेनाङ्गप्राप्तिरतोऽन्यशाखोपदे. शतो यानि प्राप्तानि तानि व्याख्यायन्ते । उक्तं चैतदर्थ दार्शपौर्णमासिकानि प्रधाना• न्युत्तरस्यां ततौ चोद्यन्तेऽन्यत्र सोमाद्धर्मादपिहोमेम्प इति, तानि स्वधर्माणीति । तस्मान्नातिदेशोऽपि तु यावदुक्तस्वधर्माण्येव ग्राह्याणि ।

अग्नीनन्वाधाय वेदं कृत्वाऽग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳ स्तीर्त्वा यथार्थं पात्राणि प्रयुनक्ति ।

औषधपात्राणि। पवित्रेण दोहपक्षे चरुपणकुम्भीमपि दोहपात्रं वा कपालस्थान आह-