पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२द्वि० षटकःJ महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४६७

नभश्च नभस्यश्चेति चतुर्भिर्मासनामभिरेककपालमभिजुहोति नभसे स्वाहा नभस्याय स्वाहेति वा ।

मासनामभिरित्यनेन सर्वत्राऽऽस्तर:लिकपणां मासा एव देवतात्वेन गृह्यन्ते । सेन काम्यं वैश्वदेवमात्र पर्व यत्रतत्र च न पूर्वोक्ता मासहोमा एवमत्रैककपालेऽपि नेति. ज्ञेयम् ।

परिवत्सरीणाꣳ स्वस्तिमाशास्त इति सूक्तवाकस्याऽऽशीःषु होताऽनुवर्तयति ।

कृतव्याख्यानम् ।

प्रहृतेषु परिधिषु सꣳस्रावेणाभिहुत्य वाजिनेन प्रचरतः ।

मतार्थम् ।

यथा पुरस्तात् ।

कानिनस्य कर्मनामधेयत्वाभावाद्यथेत्युक्तम् । अयमाशयः-एतद्ब्राह्मणान्येव पञ्च हवारवीति सार्थवादसानातिदेश इति न्यायमतमिति ।

यन्मे रेतः प्रसिच्यते यन्म आजायते पुनः। यद्वा मे प्रतितिष्ठति तेन मा वाजिनं कुरु तेन सुप्रजसं कुरु तस्य ते वाजिन्वाजिभिर्भक्षं कृतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति दक्षिणे विहारे भक्षयन्ति ।

सर्वेऽपि वाजिनानावणप्रेषकर्तृत्वादध्वयोरपि भक्षः ।

आ मा विशन्त्विन्दव आगग्ला धमनीनाम् । रसेन मे रसं पृण तस्य ते वाजिन्वाजिभिर्भक्षं कृतस्य मधुमत उपहूतस्योपहूतो भक्षयामीत्युत्तरे ।

मक्षयन्तीत्यनुवर्तते । नात्र प्रतिप्रस्थाताऽनुपयोगात् ।

सꣳस्थाप्य वारुण्या निष्कासेन तुषैश्चावभृथमव यन्ति तस्य सौमिकेनावभृथेन कल्पो व्याख्यातः ।

निष्कासः कुम्भीगतः । अत एवोक्तं भरद्वाजेन स्थालीगत निष्कासं प्रज्ञात निद. घातीति । प्रायणीयस्य निष्कास उदयनीयमिति सूत्रकारोऽपि तथैकातो नावदान- शेषो निष्काप्त इति । एष वै दर्शपूर्णमासयोरवमृथ इत्यादाववभृथशब्दो गौण एकातो मुख्यः सौमिकावभूध एव तस्यैव स्वधर्मत्वात्तेन व्याख्यातोऽयमवभृथः ।

न साम गीयते ।

प्रतिषेधादित्यर्थः। घ. ज. स. म. द. शास्त दिव्यं धामाऽऽशास्त। १ ग, ठ, ढ, ण, प्या- मिक्षानि । T