पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रद्वि०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

वेदं निधाय सामिधेनीभ्यः संप्रेष्यति ।

भध्वर्युरेवानूहेनेत्युक्तं साधारणत्वावर चाऽऽनोधसंप्रैपश्चेत्युक्तम् ।

संमृष्ट उत्तरेऽग्नावसंमृष्टे दक्षिणे प्रतिप्रस्थाता पत्नीं पृच्छति पत्नि कति ते जारा इति सा यावतः प्रब्रूयात्तान्वरुणो गृह्णात्विति निर्दिशति यज्जारꣳ सन्तं न प्रब्रूयात्प्रियं ज्ञातिꣳ रुन्ध्यात् ।

पत्नीसमीपं गत्वा प्रतिप्रस्थाता तां पृच्छति कति ते नारा इति भर्तृव्यतिरिक्ता. स्तस्थां मैथुनेन संसृष्टास्तान्वरुणो गृह्णास्वित्यध्वर्युरेवाने पुनः प्रतिप्रस्थातृप्रणात् । मारकत्वद्वित्वयोस्तं ताविति वक्तमुक्तं सा यावत इति । सति जारे यदि न कथयेत्ताई तस्या प्रियं ज्ञाति गोत्रनं सन्ध्यायाध्यादिना वरुणोऽवरोधं कुर्यात् । भविद्यमाने न सन्ति मारा इति प्रयात्तदा तानिति नास्ति । जारकपने तु तेनैव प्रायश्चित्तमिति केचित् । कर्मान्ते कार्यमित्यन्ये ।

प्रघास्यान्हवामह इति प्रतिप्रस्थाता पत्नीमुदानयति ।

स्पष्टम् । सजोषस इत्यन्तः ।

ऐषीके शूर्पे करम्भपात्राण्युप्तानि पत्नी शीर्षन्नधि निधायान्तरा वेदी गत्वाऽग्रेण दक्षिणमग्निं प्रत्यञ्चाववतिष्टेते यजमानः पत्नी च ।

उत्तरेण विहारमोणोत्तराहवनीयमन्तरेण च वेदी गत्वा पूर्वमेवासाऽऽदितानि करम्भपात्राण्यैषीके शूर्प उप्तानि तानि सह शूर्पण शोणि स्थापयित्वाऽन्तरा वेदी दक्षिणाहवनीयस्यायेण गत्वा दंपती तत्र प्रत्यङ्मुखाववतिष्ठते ।

मो षू ण इति यजमानः पुरोनुवाक्ययामन्वाह यद्ग्राय इत्युभौ संनिगद्य शूर्पेण दक्षिणेऽग्नौ जुहुतः ।

तिष्ठन्नेव पुरोनुवाक्याधर्मेण मो घू ण इति । गीरित्यन्तः । पुरोनुवाक्यामन्वाह तत उमौ दंपती यााम इत्यादि स्वाहान्तमुक्त्वाऽन्ते नोभावपि जुहुतः । प्रघास्या महतो देवता । स्पष्ट मन्यत् ।

अध्वर्युर्वा जुहोत्यन्वारभेते इतरौ ।

मन्त्रावपि पठित्वाऽध्ययुरेव जुहोति दंपती अन्वारभेते ।

अक्रन्कर्म कर्मकृत इति विपरायन्तौ जपतः ।

सुदानव इत्यन्तं व्यत्ययेन व लोकं यथेतं प्रतिपठन्ती गच्छतः । १. प्रारं । २ च. उ. 'बरं बाडमी ३३. इ. र सामा।क, कवा तेनो।