पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ie ४२८ सत्याषाढविरचितं श्रौतसूत्रं- [" चतुर्थप्रभे-

प्रादुर्भूतेषु स्तोकेषु स्तोकेभ्योऽनुब्रूहीति संप्रेष्यति ।

स्तोका वपायां श्रप्यमाणायां मध्ये मध्ये बुख़ुदा इवोन्नता येऽवयवास्ते तेषु प्रक- टेषु सत्स्वैव प्रेष्यति मैत्रावरुणम् ।

श्येनीꣳ सुशृतां कृत्वा सुपिप्पला ओषधीः कृधीति दक्षिणस्यां वेदिश्रोण्यां प्लक्षशाखायां निदधाति ।

अत्र सुशृतां कृत्वा निदधातीति समानकर्तृक त्वावगतेः पाके च प्रतिप्रस्थातुः कर्तत्वान्निधानमपि तेनैवेति माति, तथाऽप्यभिहोमप्रभृतिसमाख्ययाऽध्वयोरेव कर्तृत्वादन स्वाप्रत्ययेन पूर्वकालत्वमात्रमुक्तमिति गम्यतेऽथवा श्येनी सुगृतामध्वर्युरेव कृत्वति ज्ञेयम् । श्येनी श्वेता श्वेता पूर्वमेवास्ति तस्य वर्णस्यानपगमे सत्येव सुशृतां कृत्वा । अत्र सांनाय्यवदभिघार्योत्तरत उदास्य यूपाहवनीयान्तरा नीत्वा सुपिम्पला इति बाहि प्येव प्लक्षशाखायां महावेदिदक्षिणोण्यामास्तीर्णायां निदधाति । तदुक्तं भरद्वाजेन-सांनाय्यवदभिवार्य तथोद्वास्य बहिपि प्लक्षशाखायां प्रतिष्ठापयतीति । सांना. व्यस्य कुम्म्या सहोद्वासनमत्र वपाश्रपणीभ्यां सहैवोद्वास्य सहैव निदधाति ।

प्रद्युता द्वेषाꣳसीति वपाश्रपणी प्रवृहति ।

निधानानन्तरं वपाश्रपणी वपयाऽऽच्छादिते प्रवृहति षपातो निर्गमयति । यस्त आत्मा, इयमिन्द्रियम्, अनयेन्द्राय तया देवा वपामयीत्यूह इति केचिदन्ये तन्नेच्छन्ति । हविष्देन मनस्त्वेन वा नपुंसकत्वैकवचनत्वोपपत्तेरविकृतो मन्त्रो वपा मयि श्रयतामित्येव विकृतमिति । याजमानमयं यक्षः पञ्चहोता।

स्रुचौ होताऽऽदापयति घृतवतीमध्वर्यो स्रुचमास्यस्वेत्युच्यमाने जुहूपभृतावादायात्याक्र- म्याऽऽश्राव्य प्रत्याश्राविते स्वाहाकृतीभ्यः प्रेष्येति संप्रेष्यति वषट्कृते हुत्वा प्रत्याक्रम्य प्रयाजशेषेण पृषदाज्यमभिघार्य वपामभिघारयति [ द्विर्वपाꣳ सकृत्पृषदाज्यम्] ।

चोदकप्राप्तपदार्थाः प्रयानेभ्यः पूर्व कर्तव्यास्तेषामुस्कृष्टानामत्र कर्तव्यत्वेनानुस्म. रणं स्वाहाकृतीभ्यः प्रेष्येत्येतस्मात्पूर्वविधानार्थ प्रकृता( त प्रयानशेषेण पृष. दाज्यममिधार्य वपामभिधारयतीत्यस्य विधानार्थ पृषदाज्य स्थालीगतं वनस्पति- यागोपयोक्ष्यमाणं न सुग्गतं नोपभृतमन्तत इति भरद्वाजः । तेन परिसंख्येयं वपामेवेति पृषदाज्यमभिधार्य वपामभिधारयतीति श्रुतेः पौर्वापर्य नतूपयोगक्रमेण । १०. इदमि।