पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ४२०॥ सत्याषाढविरचितं श्रौतसूत्रं- [४ चतुर्थप्रश्शे-

समिद्भ्यः प्रेष्येति प्रथमं प्रयाजꣳ संप्रेष्यति प्रेष्य प्रेष्येत्युत्तरान् ।

प्रयानानिति शेषः । मात्रवणिक्यो देवता वसन्तादिभिरविकृतस्नुमन्त्रणम् । ननु मन्त्रवणे समिधो देवता नावगम्यन्ते कथमत्र तन्निमित्तं समिभ्य इति । उच्यते- आप्रीसूक्तेषु क्वचित्समिद्धशब्दः क्वचित्समिच्छन्दोऽस्ति तावता नामधेयोपपत्तिः । अथवा समिधः प्रथमप्रयानस्यायं विकार इति तथा नामधेयं बहुवचनान्तं देवतानि. देशस्तु समित्समिदिति. सूक्ते समिदित्येकवचनान्तेन प्रयोगेण, समिद्धो अति सूक्त समिद्धशब्देन पुंलिङ्गेन । एवमन्येषु सूक्तेषु ज्ञेयम् । समिद्भ्य इति बहुवचनं तु विरूपै. रन्यैर्नामधेयरेकशेषात् । प्रकृतौ समिधो यद्यपि बद्धास्तथाऽपि तत्र विरूपनामधेयेस्तनू. नपादादिभिरेकशेषस्याभिमतत्वात् । यतः प्रथमेन स चातिदेशं मत्वा विना तनूनपादा- दिनाम्ना केवलं यनेति च औषं विधत्ते देवान्य नेत्यन्यानेषु देवशब्दे सरूप एक इति प्रकृती समिधो यति प्रथमे यन यजेतोतरेषु प्राप्तेषु प्रेषेषु तद्वदेते विहिताः समान- कार्यकरत्वात्तद्वाध एतैः । अत एव कात्यायनः-प्रेष्येत्याह यजस्थान इति ।

चतुर्थे समानीयाष्टमे सर्वꣳ समानयते ।

यत्प्रकृतौ चतुर्थे समानयनमौपभृतस्योक्तं तदत्रार्ध चतुर्थेऽवशिष्टं सर्वमष्टम. उत्प. त्तावेव या संख्या श्रूयते पञ्च प्रयाजान्यजतीति न संख्यागुणयुक्तेषु प्राकृतेषु यत्रान्य. संख्याविधानं विकृती नव प्रयाजानेकादश प्रयाजानिति तत्र प्राकृतबाधेनापि तु प्राकृ. ताम्यासेनैवेति न्यायमतं दर्शयितुमुक्तमष्टमे सर्वमिति वैकृतस्याभ्यस्तस्याष्टमस्यापि चतुर्थत्वमिति भावः । सर्वमित्यन्यानार्थमवशेषाभावात् । आचार्यस्तु चतुर्थस्योपान्त्य स्याभ्यासमष्टमपर्यन्तं मन्यतेऽन्त्यस्याम्यासेन नवमदशमैकादशान् । तद्याजमाने स्पष्टं भविष्यति । तथा च यथाप्रकृति चतुर इष्ट्वोत्तरत एव चान्यानपि चतुरस्ततस्त्रीमध्ये यजति ।

दशेष्ट्वैकादशायाऽऽज्यमवशिष्य ।

स्पष्टम्।

घृतेनाक्ताविति जुह्वा स्वरुस्वधिती अनक्ति ।

अत्र द्विवचनमुपरवबहुवचनवव्याख्येयमेकैकत्र तस्यानुपपत्तेर्नच द्वयोः सहैवानं द्रन्यपृथक्त्वादिः सकृदिति धर्मविशेषेणाऽऽवृत्तिदर्शनाच्च ।

द्विः स्वरुं सकृत्स्वधितेरन्यतरां धाराम् ।

सकृन्मन्त्रस्तूष्णीं सकृत्स्वधितरेकामेव धारामनक्कीत्यनुकृष्यते । तत्रापि मन्त्रः स्वरुस्वपित्ती अनक्तीति यदुक्तं तदेव प्रपञ्चितं न पृथगनेन विधानमकवाक्यमेक. क्रियात्वम् । .