पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[६ षष्ठप्रभे- . ५३० सत्वाषाढविरचितं श्रौतसूत्र-

हृदयान्निर्मितां ता ते परिददाम्यहमिति गार्हपत्यꣳ शꣳस्य पशून्मे गोपाय विश्वरूपं धनं वसु । गृहाणां पुष्टिमानन्दं ताꣳस्ते परिददाम्यहमित्याहवनीयꣳ सप्रथसभां मे गोपायेन्द्रियं भूतिवर्धनम् । विश्वजनस्य छायां तां ते परिददाम्यहमिति स प्रथ सभां मे गोपाय ये च सभ्याः सभासदः। तानिन्द्रियावतः कुरु सर्वमायुरुपासतामिति सभ्यमहे बुध्निय मन्त्रं मे गोपाय श्रियं च यशसा सह । अहये बुध्नियाय मन्त्रं श्रियै यशः परिददाम्यहमित्यावसथ्यं पञ्चधाऽनीन्व्यक्रामद्विराट्सृष्टा प्रजापतेः । ऊर्ध्वारोहद्रोहिणी योनिरग्नेः प्रतिष्ठितिरिति सर्वान् ।

अग्नीनमकृत् । स्वशाखाविराजक्रमाणातैर्विकल्पः ।

यत्रास्मै ॥ १६ ।। शतमक्षान्प्रयच्छति तेषु कृतं विजित्य सभासद्भ्यः प्रयच्छति ते यज्जयन्ति तदुभयमन्नꣳ सꣳस्कृत्य ब्राह्मणान्भोजयति ।

व्याख्यातमेतदाधान एव ।

आग्नेयस्य दक्षिणाकालेऽजं पूर्णपात्रमुपबर्हणꣳ सार्वसूत्रमश्वꣳ रथं वासः षङ्गा द्वादश चतुर्विꣳशतिरपरिमिता वर्धमाना ददाति तासां धेनुरनड्वान्मिथुनौ चाऽऽदिष्टरूपाण्यजं पूर्णपात्रमुपबर्हणं चाग्नीधे ददात्यश्वं ब्रह्मणे धेनुꣳ होत्रे गार्हपत्यदेशेऽनड्वाहमाहवनीयदेशेऽध्वर्यवे शेषः साधारणस्त्रिंꣳशन्माने पूर्वयोः पवमान हविषोर्हिरण्ये दक्षिणां ददाति चत्वारिꣳशन्मानमुत्तमे धेनुमादित्ये।

व्याख्यातमेतदाधनान्त एव ।

आधानप्रभृति यावज्जीवं नानृतं वदेत् ।

अत्र भाष्यकार: शब्दानुनमन्त च शब्दान्ते सारस्वताष्टिभंगवता पतजलि. नोक्ता । अर्थानो प्रातपत्येत्र । आचमनव्यातिनपविष्णुस्मरणानि सर्वत्र समुच्ची. यन्ते । .प. स.अ. 'नयोहि ।