पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१ छपने- ५१० सत्याषाढविरचितं श्रौतसूत्र-

प्रणीयमाना अनुमन्त्रयते ब्रह्मपूताः स्थ को वो युनक्ति स वो युनक्त्वति साद्यमानाः ।

स्वयम् ।

कस्त्वा युनक्ति स त्वा युनक्त्विति यज्ञं युनक्ति ।

एतव्याचष्टे-

सर्वमनुवीक्षते ।

सर्व विहारमित्यापस्तम्बादयः ।

यजमान हविर्निर्वप्स्यामीत्युच्यमान ॐ निर्वपेति प्रत्याहाग्निꣳ होतारमिह तꣳ हुव इति हविर्निरुप्यमाणमनुमन्त्रयते निरुप्तं निर्वपणार्थं वा पात्रम् ।। २ ।।

इति सत्याषाढहिरण्यकेशिसूत्रे षष्ठे प्रश्ने प्रथमः पटलः ।। १ ।।

निरुप्यमाणमेकैकमन्यत्सकृत् । अत्र प्रणवस्त्रिमात्रः । ओमम्यादान इति पाणि- निना लुतविधानात् । इति हिरण्यकेशिसूत्रव्याख्यायो महादेवकृतायां प्रयोगवैजयन्यां षष्ठे याजमानमश्ने प्रथमः पटलः ॥१॥


6.2 अथ षष्ठे प्रश्ने द्वितीयः पटलः ।

इदं तस्मै हर्म्यं करो्मि यो वो देवाश्चरति ब्रह्मचर्यम् । मेधावी दिक्षु मनसा तपस्व्यन्तर्दूतश्चरति मानुषीष्विति वेदिदेशमभिमृशति ।

वेदिस्थलं हस्तेन स्पृशञ्जपति । एवं यत्राभिमुशतीति तत्र सर्वत्र ज्ञेयम् । इत ऊवं द्वितीयया कर्मनिदेशेऽमिमन्त्रयत इत्यनुकर्षणीयं व्यवहितमपि । कुतः । योग्य. स्वात् । इदं तस्मा इति प्रत्यक्षेण पुरोऽवस्थितं निर्दिशत्यत्रैवाभिमृशतीत्युक्तं चतुःशि- खण्डेत्यादौ न तथा निर्देशोऽस्ति तस्मान्नामिमृशतीत्यध्याहारः । भरद्वाजादय एषु विनियोगमभिमन्नयत इत्येव पठन्ति । अनुमन्त्रयत इति तु प्रायेणाग्नौ प्रक्षिप्त एव प्रयु- ज्यते तस्मात्प्रकृतमभिमन्त्रयत इत्येवानुषञ्जनीयम् । परिस्तोर्यमाणेष्वित्यत्र नानुषञ्जनी- यम् । सप्तम्या निर्दिष्टे तु जपतीत्येव । १.स. ग. च.ट. उ. . मनिमः।