पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रद्वि० पटलः) महादेवकृतवैजगन्तीब्याख्यासमेतम् ।

प्रेयमगादुर्वन्तरिक्षं प्रेहीत्यन्यतरेण प्राचीनमुदीचीनं वाऽभिप्रव्रज्य यतः कुतश्चिद्दर्भमयं बर्हिराहरति ।

सद इत्यन्तः प्रथमस्य । द्वितीयः शाखान्तरीयः। पत्र निष्टपति ततोऽनेः सकाशात्प्रा. चीनं क्रियाविशेषणं किंचिद्गत्वा तमोदीचीन मिति शाखान्तरीयम् । द्वौ त्रीश्चतुरः प्रक. मानिति बौधायनः । अभिप्रवज्याभिमुखं गत्वा यस्यां दिशि बहिरास्ति तां दिशं गत्वाऽऽ. हरतीत्यर्थः । प्रथम पुरस्तादिति मन्त्रलिङ्गात्तद्राह्मणाञ्च प्राचीनगमने प्रथमः । श्रेयमि- तिलिङ्गादश्वपश्वी सह गमन एव । धिषणापेक्षया स्त्रीत्वमित्यसिदेन सह गमनेऽपि प्राचीनो मन्त्र इति केचित् । तन्न । एवं कल्पनायर्या प्रमाणाभावात् । तदिदं दयितुमन्यतरेणे. त्यधिक प्रयत्नः । अन्यतरेण विधिना स्वशासीयेनैव वा परशाखीयेनैववा। परशाखीयाः पदार्या उर्वन्तरिक्षमिति मन्त्रोऽसिद उदीचीनं गमनं न ते व्यत्ययं गच्छन्ति संनियोग. शिष्टत्वादिति भावः । नोचेद्वेति बगाल्लाघवेनातो व्यवस्थित त्रितयं त्रितयमिति ज्ञाप. यति । दिनियमस्तु ब्राह्मणानुसारेणादृष्टार्थः । प्रत्रज्येत्यस्योपसर्जनत्वेनाऽऽहरतीत्यनेन मन्त्रसंबन्धविधानमिति न वाच्यम् । आहरणं वक्ष्यमाणमनूद्यते न विधीयते, गमनं तु ल्यपा निर्दिष्टमध्यपूर्वत्वाद्विधेय, तदेवोभयमन्त्रप्रकाश्यमिति तत्रैव मन्त्रविधिः कल्प- नीयः । आहरतीति प्रतिज्ञा क्रियत आहरणस्यातः परं वक्ष्यमाणमझमिति दर्ययितुम् । सूत्रान्तरे समुच्चयोऽनयोर्मन्त्रयोदृष्ट स्तनिवारणमप्यन्यसरग्रहणेनेस्यपि प्रयोजनम् । यतः कुतश्चिदिति ब्राह्मणमेवानुकृतं ' अथो यदेतदुक्त्वा यतः कुनश्चाऽऽहरति । तत्प्राच्या एव दिशो भवति ' इति । दर्भमयम् । दर्भा दशप्रकाराः सप्तप्रकारा वा । कुशादिमध्ये पूर्वः पूर्वो ग्राह्यः । दर्भरूप दर्भमयं तदेव बहिः । तत्रैव बहिःशब्दो मुरूगस्तृणनाति- वाची चामुख्य इति ज्ञापयितुं पूर्व दर्भमयमित्युकं, दर्भमयमेव बहिर्नान्यदित्यर्थः । बहिरेव सत्पश्चाद्विधिना नयति । जातिवामित्व बहिराज्याधिकरणे स्थितम् । बर्हिरित्येकवचनमविवक्षितमुद्देश्यगतत्वात् । तथाऽप्येक नातीयमेवेत्यस्ति विवक्षा।

विष्णोस्तूपोऽसीत्यभिप्रेतानामेकꣳ स्तम्बमुत्सृजतीन्द्रस्य परिषूतमसीत्यन्यं परिषौति देवानामिति वा ।

वर्षवृद्धमसीत्यन्तोऽन्त्यस्य । अभिप्रेता ग्रहणयोग्यत्वेन, स्थलविशेषनिष्ठस्तम्बा दर्भा. स्तेषां मध्य एक स्तम्बं छेद्येभ्यो बहिर्लीयत्वाऽन्यमवशिष्टं स्तम्ब नातं परिगृह्णाति । छेदनीयत्वेन बुध्या परिग्रहः । स्तम्बत्यागेन सर्वेषामपादानभूतानां दर्भाणां संस्कार इति त्याज्यं स्तम्नमुपादेयं तद्नं विशेषणं च विवक्ष्यते । तथाऽप्येकमिति संख्योपादानं न प्रतिमुष्टि स्तम्बत्याग इति प्रदर्शनार्थम् । अन्यमित्येकवचनमविवक्षितमद्देश्यगतत्वात् । स्तम्बशब्दः पुंलिङ्गोऽग्निवान् दर्भस्तम्ब इति दर्शनात् । . ग. च. छ. द. 3. ह. 'रण दृ" । २ ख. 'कृतम् । तथाहि ।। ११