पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमाने- समुच्चयोऽपि दृश्यते । तथाच नानाश्रुतिप्राप्तेषु लिनेन वाऽनुज्ञातेषु किं सर्वत्र समु. चयो विकल्पो वेति संदेह आह-

एकमन्त्राणि कर्माणि।

एक एव मन्त्रोऽङ्गत्वेन करणं येषां तानि । अत्र हि प्रकाशनव्यतिरिक्ता किया विवक्षिता न कर्ममात्र, प्रकाशनार्थानां चाग्रिमसूत्रे समुच्चयस्यापि वक्ष्यमाण- स्वात् । अतोऽत्र क्रियार्थप्रकाशनव्यतिरिकैव विवक्षिता । मन्त्रा अपि करण- मन्त्रा एव संभवात् । तत्रैकेन मन्त्रेण क्रियोत्पत्ती सत्यामितरेषामानर्थक्यं स्यादिति सर्वत्र विकल्प एव । नानाश्रुतीनां परस्परनरपेक्ष्येणैव विनियोगात् । लिङ्गमपि प्रति- मन्त्रं निरपेक्षमेवाङ्गत्वमावेदयति । तस्मात्प्रत्येकमेव करणताऽतो वैयर्थ्यभयादष्टदोष- दूषितो विकल्पोऽपि गृह्यते । यत्र तु द्वाम्यामादत्ते पञ्चभिराहवनीयमित्यादिकरण- मन्त्रेषु संख्याश्रुत्या समुच्चयोऽवगतः सामर्थ्य बाधते, श्रुतेः सामर्थ्याबलीयस्त्वात्, तंत्र यथोपदिष्टन्यायेन कयाऽपि वृत्त्यैकमन्त्रता संनिपातकरणता च संपादनीया । अत एवाऽऽपस्तम्बाचार्य:-'अपि च संख्यायुक्तानि' इत्याह । संख्या प्रदर्शिता । तान्यपि कर्माण्येकमवाण्येवेत्यर्थः । अकर्मकरणेषु तु समुच्चयोऽप्यनुज्ञातोऽपि(तः) संख्यावि. धुरा यत्रानेके कर्मकरणा नाना पाठान्तरमे (ए)कैनेतिकरणेन वा विनियुज्यन्ते तत्र प्रत्येकमेकमन्त्रलक्षणगुणभेदाझेद एव कर्मणां प्राप्नोति । तत्र गुणकर्मसु द्रव्यैकत्वेन प्रयोजनकत्वात्प्रयोगभेदेन विकल्पः । प्रधानकर्मकरणमन्त्रेषु तु प्रयोजनस्यापूर्वस्य प्रमाणान्तरेणैकत्वानवगमात्कर्मभेद एव । तत्राने कानि कर्मण्येवैकप्रयोगे क्रियन्त इति न मन्त्राणां समुच्चयो नापि विकल्पः । यथा भगो वामिति सर्वमन्त्रान्त इतिकरणेन गुणकर्मकरणा मन्त्राः । प्रधानकर्मकरणास्तु कूश्माण्डर्नुहुयादिति नाम्ना । इष्टेभ्यः स्वाहेत्यष्ट(टा)त्रिंशन्मन्त्रान्त इति सर्वप्रायश्चित्तानि होतीति मन्त्रगणेन कर्म चोद्यते तत्र प्रतिमन्त्रं जुहुयादिति च वक्ष्यति । इदं न्यायमूलम् । श्रुतिरपि ' यदेकया जुहुयाइर्विहोमं कुर्यात्' इति । दविहोमस्यैकमन्त्रसाध्यत्वेन निन्दयाऽनुवादावगमाइविं. होमा एकर्साध्या इति गम्यते । एवमन्यत्रापि द्रष्टव्यम् । अकर्मकरणेषु संस्कारकमन्त्रेषु नानामन्त्रप्राप्ती समुच्चयोऽस्तोत्याह-

समभ्युच्चीयेरन्हौत्राणि

नपुंसककर्तृ व्याख्यातम् । समुच्चयनकस्मिन्नेव प्रयोगे संस्कार्यैकत्वेन क्रियेरन् । अनवचन शब्दबलात्प्रतिपाद्यार्थप्राधान्यात्संस्कारमन्त्री एवं गृह्यन्ते । होतुः कर्तव्यानि १.न. उ. मितिन्या । 2. ट. नानापा । ठ. मायावान्तरे एवै । ३ क. ग. च. उ. अत्र । 3.पि वक्ष्यति-य। . .