पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(अ.पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३८१

तिविशेषेण वा सप्तदशानुयादित्यादिविधिभिर्वर्धमानासु पञ्चदशभ्योऽधिकासु विधीय- मानासु तासां प्रणवे प्रणवे निधीयमानानीमकाष्ठानि समिधस्तत्संख्यया कार्याणि । यद्यपि न सामिधेन्यङ्गानि काष्ठानीति वर्धन्ते प्रधानानुरोधेनेति न भवति तथाऽपि सामिधेनीनामुपकारकाणि भवन्ति । कथम् । उच्यते-समिधं गृहीत्वाऽग्नौ प्रक्षिपति । प्रणवे तावत्समिध्यमान इत्युच्यत इत्युक्तमेव नहि तया गृहीतयाऽनारब्धे समिन्धनेऽग्नेः समिध्यमानत्वं, यदा प्रतितामिधेनीत्ययं पक्षोऽन्ययोः पक्षयोः पूर्व निहितसमिधै-- कैकयैव समिध्यमानः प्रकाश्य एकैकया सामिधेन्या न तु बह्वीमिः समिद्भिरिध्यमान . एकैकया प्रकाश्यः पञ्चदशेधमदारूण्यभ्यादधातीत्यादिना विहितैकविंशतिसंख्याकेम- काष्ठानां प्रत्येकं कर्मणि विनियोगात् । तथैकया समिध्यमान एकया प्रकाशितो नान्यया प्रकाश्यते । हौत्रे मन्त्रसमुच्चयोऽप्यनेकोद्देश्यत्वासंभवे न तु सर्वत्र । तस्मात्प्रतिसा- तु मिधेन्येकैकस्या एव समिध उपकारकत्वात्तदुपकाराय समिधोऽपि वर्धन्ते । नत्वे(न्वे) तिव एव सामिधेनीरन्यूच्येत्यत्रैकामन्वाहेत्यत्र च समिधां ह्रासः स्यादत उक्तं संह्रिय. माणास्विति । प्रकृतौ दृष्टा संख्याऽऽधिक्ये न बाध्यते हासे तु बाध्येत तबाघो मा भूद्विति यथाप्रकृतिपञ्चदशैवाभ्यादधाति । एकया समिध्यमान एकया प्रकाश्यत इति नियमो बाध्यते वचनान्महापितृयज्ञ एकामन्काहेत्यत्र त्रैधमिध्मं विभज्येति स्वयमेव वचनं दर्शयिष्यति । तथोपसत्सु तिस्र एव सामिधेनीरनूच्येत्यत्र च नवधेमं विभज्येति देशयिष्यति । पठ्यते सौत्रे एव वचने तथाऽपि श्रुतपञ्चदशसंख्याबाधो न सामर्थन कर्तुं शक्य इति न पञ्चदशत्वबाधः ।

यथार्थमूहः ।

विकृतौ कार्य इत्यध्याहारः । काष्ठविवृद्धौ मन्त्र ऊहनीय एकविशतिधेत्ययमित्यूहस्य बुद्धिस्थत्वे व्याख्यायते । यथाऽर्थो विद्यते कर्मणि समवेतस्तथोहोऽर्थाभिधायकपदप- योगो लौकिको मन्त्रे कार्यः। ननु कथं लौकिकपदप्रयोगेण मन्त्रताऽऽम्नानाभावान्मन्त्रपदेन योगेन लक्षणया चार्थप्रकाशनसंमवादिति चेत् । उच्यते-विकृतौ मन्त्रोऽतिदेशेनाss. नुमानिकेन प्राप्नोति न श्रुत्या यथोपदिष्टं ब्राह्मणवन्त इत्यत्र परिभाषितत्वात् । अश्रुति- प्राप्ते तु यदि नाभिधा प्रभवति तदा पदमनर्थकमुत्कृष्य तत्स्थाने समर्थ लौकिकं प्रयोक्त. व्यम् । तत्रार्थप्रकाशनं दृष्टप्रयोजनं सिध्यति न मन्त्रेणैव प्रकाशनमिति नियमामाव- मात्रमापतति । मन्त्रपदे त्वसमर्थे न प्रकाशनं नापि तदारको नियम इति द्वयमपि बाध्येत । किंच न पिता वर्धनं न मातेति हौत्रेऽन्वेनं माता मन्यतामनु पितेति मन्त्रे तस्मादेवं नोहेदिति चोहप्रतिषेधादन्यत्रोह इति मीमांसातो विस्तरतो ज्ञेयम् ।

न प्रकृतावूहो विद्यते ।

यदि मन्त्रः प्रकृतावेवासमर्थस्तदा श्रौतविनियोगानुसारेण कयाऽपि विवक्षया समर्थनीयः