स०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३४३
धृष्टिरसीत्युपवेषमादाय निरूढं जन्यं भयꣳ सह तेन यं द्विष्मः सुभूताय श्रयध्वमिति तेन गार्हपत्यादुदीचोऽङ्गारान्निरूहति ।
उपवेषोऽङ्गारनिर्हरणार्थ काष्ठम् । उदगायतनान्निःसारयति तेनोपवेषेण ।
भूतकृतः स्था षोढं जन्यं भयꣳ सह तेन यं द्विष्म इति वा ।
निर्हरणे मन्त्रो विकल्पेन ।
व्यन्तान्करोति ।
अन्त आयतनस्य तस्माद्विगता अङ्गारास्तादृशान्करोति गार्हपत्यायतनाबहिनिर्ग- मयतीत्यर्थः।
इडायाः पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व । ये ग्राम्याः पशवो विश्वरूपास्तेषाँ सप्तानामिह रन्तिरस्तु पुष्टिरिति तेष्वग्निहोत्रमधिश्रयति ।
तेष्वङ्गारेवग्निहोत्रसंबन्धिद्रव्यमग्निहोत्रस्थाल्यां स्थितमधिश्रयति सामर्थ्यात् ।
समुदन्तꣳ होतव्यम् ।
समुदन्तं दोहानन्तरं फेनवदेवाऽऽनीयैवाधिश्रितमात्रमेवोन्नयनादिना होतव्यमित्यर्थः ।
अनन्तरं वाऽधिश्रयणादुद्भवः स्थोदहं प्रजया पशुभिर्भूयासमिति तृणं प्रदीप्यावेक्षते ।
अधिश्रितमेव वा पक्षे संस्कार उच्यते । तेन प्रदीप्ततृणप्रकाशेन स्थालीगतं द्रव्यम- वनतो भूत्वेक्षते । मार्हपत्यादेव प्रदीपनं तत्त्यागश्चानन्तरमिति तु समुदन्तं होतव्यमि. त्यत्रावेक्षणादि नास्ति ।
हरस्ते मा विनैषमिति स्रुवेणाद्भिः प्रतिषिञ्चत्यमृतमसीति वा ।
हस्तपात्रयोः परिसंख्यार्थं सुवेणेति बिन्दुमात्रपरिसंख्यार्थमद्भिरित्युक्तम् ।
गोदोहनसंनेजनेन प्रतिषिच्यमेकेन स्तोकेन प्रतिषिच्यं प्रतिषिक्तं पशुकामस्य ।
पशुकामस्य यजमानस्य गोदोहनपात्रस्य संजनं संनिज्यते प्रक्षाल्यते येनोदकेन तेन प्रतिषेचनीयं तेनैकेन बिन्दुना प्रतिषेचनीयमेवं प्रतिषिक्तं पशुकामस्य नाद्भिः प्रति- देकोऽपि त्वयमेवेत्यर्थः । मन्त्रस्तु पूर्वयोरन्यतर एव ।
अप्रतिषिक्तं तेजस्कामस्याभिचरतस्तितीर्षतो वा ।
अद्भिरपि न प्रतिषिक्तं कार्य तेजः शास्त्रादिना कामयमानस्य तथाऽभिचारमिच्छ- तस्तथा तितीर्णतः पाप्मादिकमनिष्टं तनुमतिक्रमितुमिच्छतोऽपि यजमानस्याप्रतिषिक्तमेव पूर्ववत् । ।