पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । द्विहितः कममिरुत्पत्तिरेवापेक्षिता । सा मर्जन्यत्वेन प्रयोजनमित्येव युक्तम् । मन्त्राणां विहितानुवादिनामेवोत्पादकत्वात् । यज्ञस्योत्पादकत्वेन संनिपत्योपकारकत्वेनाङ्गतोक्का भवति । तथोच्चारणमात्रेण नाङ्गता । दृष्टार्थाध्ययनविधिबलान्मन्त्राणामर्थावबोधपर्यः वसायिताऽवगता । मन्त्रा हि दृष्टार्याध्ययनविध्यध्यापिताः किमस्माभिः पुरुषसमाहित दृष्टं जन्यमित्याकाक्षमाणा अध्ययनविधिना यच्छक्यते दृष्टं येन जनयितुं तेन तज्जन्य- मिति चानुज्ञाता मन्त्राः स्वार्थप्रकाशनमात्रमेवास्माकं जन्यत्वेन शक्य तज्जन्यम- स्माभिः । तच्च कथं दृष्टद्वारा पुरुषसमाहितसाधनं स्यादित्याकाक्षमाणास्तिष्ठन्ति । तत्र जपस्तोत्रशस्त्रकर्माणि चाथ प्रतिपादनरूपाणि विहितानि । तत्र ये समर्थी जपस्तोत्रश. स्त्रमन्त्रास्तदुत्पादनमात्रेणानत्वं गताः सप्रयोजनाः सन्तो निराकाङ्क्षा जायन्ते । अन्ये मन्त्रास्तु स्वार्थावबोधकत्वमात्रेण न निराकाङ्क्षाः। स्वार्थावबोधनस्य विधिना समोहित. साधनत्वेनाविधानात् । एवं च कथमजिनामुपकारो दृष्टोऽस्माभिः कर्तव्य इति साकाक्षा- स्तिष्ठन्ति । तत्राङ्गिनः स्वोत्पत्तये स्मृतिमपेक्षन्ते । न ह्यननुसंहिताः पुरुषेणानुष्ठातुं शक्य- न्ते । तदनुसंधानं यद्यपि विधिवाक्यैर्मवेत्तथाऽपि तेषां कर्तव्यताप्रमाननेनोपक्षीणत्वा- मन्त्राणामानर्थक्यौदृष्टार्थत्वापत्तेश्च मन्त्रेभ्यः स्वाङ्गत्वेन विहितेम्य एव स्वस्मृति ब्ध्वा निराकाङ्क्षा भवन्ति । मन्त्रा अपि स्मृतिद्वाराऽङ्गतां गता निराकाक्षा जायन्ते । येषां स्वत्वावेदको विधिर्नास्ति तेऽपि लिनेन विधि कस्पयित्वा स्वार्थानुष्ठानाङ्गता प्रतिपद्यन्ते विधिविनियुक्तमत्रसाम्येनैकरूप्याय । तत एवाध्ययनविधेर्दष्टार्थत्वेनैक- रूप्यं स्यात् । कचिदृष्टार्थता लौकिकेषु मन्त्रेणुं चादृष्टार्थतेति वैषम्यं स्यात् । ननु जपतेरुच्चारणमा वाच्यं, न तस्य स्वार्थप्रकाशकस्वेन तत्प्रत्यक्षत्वं स्वार्थप्रकाशन- स्थाविधानात् । तदर्थ स्मृतेरपि कर्माङ्गताया अनपेक्षणाचेति चेत् । उच्यते-अध्ययन- विधिदृष्टार्थतालाभाय नपतीत्यस्यैव विधेरर्थप्रकाशनमर्थाद्विधेयं यथा मन्त्रेणेदं कार्यमि. त्यत्र मन्त्रोच्चारणमर्थाद्विधीयते । अपतेश्वार्थानुसंधानेनोच्चारणमध्यभिधेयं मन्त्रोचारण- लक्षणजपेनादृष्टं भावयेन्मार्थप्रकाशनद्वारेति विधौ पर्यवसन्नेऽर्थप्रकाशनभावनाऽपि विधेयेति दृष्टद्वारेणैव यज्ञकर्मार्थता नोच्चारणमात्रेणापूर्वोत्पाद कता किंतु स्वार्थप्रकाशन- द्वारा तेषां दृष्टार्थप्रकाशनमात्रद्वारोचारणासर्वसाधारणाददृष्टं करप्यत इत्यदृष्टार्थ- स्वामिलापो गौणो न तु दुन्दुभ्यादिशब्दस्य स्तोत्रोपाकरणत्ववन्मुख्यः । एवं स्तोत्र- शस्त्रमन्त्राणामपि स्तौतिशंसातम्यां देवतागुणकीर्तनवाचिम्यां विहितस्तोत्रशस्त्ररूपक- मणोः संकीर्तनरूपयोजनकत्वादस्सि ह्येषामपि यज्ञकर्मार्थत्वम् । एवं प्रत्यगाशीमप्रकृतो- पस्थानाभिमन्त्रणानुमन्त्रणाभिमर्शनमन्त्राणामपि ज्ञेयमिदं स्पष्टयिष्यते याजमाने जपतु. १ क. ग. च. धकस्य । २ क. ग. घ. जन्यत्वेऽने । ३ ख. क्याद। ४ क.ग. च. छ. लब्पा । ५ ख, लैहिकेषु । ६ क. ग. प. उ. 'धु वाऽ।