पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

आधास्यमानो नक्षत्रात्पूर्वदिने द्वितीयं ततो नक्षत्रे पुनराधेयं कार्य कृत्वा ततो नित्ये. ष्टिरित्यर्थः । तत्रावधिरुक्तः संवत्सरमिति । तत्र 'संवत्सरपर्यन्तमवसृष्टामिरिति न विधीयते किं तु संवत्सरं परं नावसृजेदित्यर्थः । तदाहाऽऽपस्तम्बः-संवत्सरं परार्धमु. न्सृष्टाग्निर्भवतीति । परं परोऽवधिरित्यर्थः । तदा शरदनन्तरं निमित्ते सति चोत्सर्गे कृते यावद्वर्ष रागच्छति तावदवसृष्टानिस्ततः परं पूर्ववत् । दैवान्मानुषाद्वा प्रथमपर्वात्यये सति उत्सर्गेष्टि पर्वणोऽनन्तरं यावत्रयोदशो मासो न प्रवर्तते ततः पूर्वमेव पुनराधेयम् । तदतिक्रमे प्रायश्चित्तमग्नित्यागनिमित्तमित्यर्थः । वर्षौ शरदि वा निमित्तेनोत्सर्गे दैवान्मानुषाद्वा पुनराधेयस्य त्योत्वोरसंभवेऽपि द्वादशमासातिक्रमो न कार्यः । कृते प्रायश्चित्तमित्यपि ज्ञेयम् । द्वादशाहं वेत्यनेन निमित्तानन्तरपर्वण्येवोत्सर्गेष्टिरिति न, किंतु वर्षोः प्रथमपर्वणः पूर्व पुनराधेयनक्षत्रे प्राप्ले सति ततः पूर्व द्वादशदिनमध्य- एव पर्वणि पूर्ववदुत्सृज्य नक्षत्रे पुनराधेयं ततः पूर्वं नित्येष्ट्यादिक कार्यमेवेति मतान्तरं दर्शिलमिति ज्ञेयम् । एवं च शरदि प्राप्तेन निमित्तेन पुनराधेयप्राप्ती शरदन्तिमे पर्वणि नित्येष्टिपूर्वकमुत्सर्गोष्टिं कृत्वा तदैव प्रतिपदि रात्रौ ब्रह्मौदनद्वयं विधाय द्वितीयायां पुनराधानं तदपि प्रतिपापक्रमाद्भवत्येव पर्वाधानम् । तदिदं स्पष्टं बौधायनकात्यायनवैखानसैरुक्तम्-'तदानीभेव वाऽद्भिरग्नीनभ्युक्ष्य ब्रह्मौदनं श्रपयि- त्वोपवसति' इति । श्व आधानमित्यर्थः । एतेषां पक्ष एक एव ब्रह्मौदनः सद्यस्काले । अयं तैः सर्वपक्षर्विकल्प उक्तः स संकोचे व्याख्यातः । यत्तु निमित्तानन्तरमेवेत्यना. दृतं तदा तावन्नित्येष्टयादि निमित्तानन्तरं कृत्वा ततो वर्षर्तुप्रवृत्ती पर्वणः पूर्व नक्षत्रं न लम्यते तदा प्रथमपर्वण्येव नित्येष्टयुत्सर्गेष्टी कृत्वा तदैव ब्रह्मौदनादि पूर्ववज्ज्ञेयम् । अयमपि पक्षो द्वादशाहं वेत्येवं वदता सूत्रकृताऽप्यनुज्ञात एवं निवेदितव्यम् । श्लोकाः-अरण्यादिप्रणाशेन वह्नीनां नाश आमते । तस्मध्ये पुनराधेयनिमित्ते सति चाऽऽगते ॥ १॥ प्रायश्चित्ताधानतोऽग्नीनुत्पाद्य तदनन्तरम् । पुनराधेयविधिना कुर्यादुत्सर्गपूर्वकम् ॥ २ ॥ एवं च पुनराधाननिमित्ते सति केनचित् । निमित्तेनाग्निनाशे प्रायश्चित्ताधानमिष्यते ॥३॥ ततस्तु पुनराधानं कुर्यादुत्सर्गपूर्वकम् । नाशे सति तु वदीनामृत्सर्गेष्टिः क्व वा भवेत् ॥ ४ ॥ तस्यामनुष्ठितायां तु पुनराधानमिष्यते । उद्वास्य पुनराधेय इति श्रुत्या विधीयते ॥ ५ ॥ उद्वासनोपलक्ष्यश्चोद्वासनेष्टिरिहोच्यते । उद्वासनं चेष्टिपूर्व द्वे अङ्गे पुनराहितेः ॥ ६ ॥