पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४च०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३१५

वातः प्राण - तुं पचाग्नेऽन्नपा इत्यादिनाऽऽदधातीत्यर्थः । अग्नेऽन्नपा इति वर्जयित्वाऽने- नोपतिष्ठते यज।

यो ब्राह्मणो राजन्यो वैश्यः शूद्रो वा सुर इव बहु पुष्टः स्यात्तस्य गृहादाहृत्याऽऽदध्यात् ।

सुरो देवः स इव बहुप्रकारैर्धनधान्यपशुपुत्रादिभिः पुष्टः स्फीतः । परमपुष्टताख्या- पनायोक्तं सुर इवेतीति केचिद्व्याचक्षतेऽन्ये त्वसुर इति पदं कुर्वन्तोऽसुवद्रायो धनानि यस्य सोऽसुरः । ह्रस्वत्वं छान्दसम् । प्राणतुल्यं धनं व्ययितुमशक्त इत्यर्थः ।। अथवाऽसूत्रातीत्यसुरः। रा आदाने प्राणानेव पुष्णातीत्यर्थः । अतिकृपणो नृशंसः पर- स्मादेवाऽऽदाय पुष्टिं वृद्धि प्राप्त इति व्याचक्षते । तस्य गृहादग्निमात्य दक्षिणाग्नि मादधातीत्यन्यः कल्पः।

अत ऊर्ध्वमस्यान्नं नाद्यात् ।

पुरुषार्थः प्रतिषेधो यत्प्रभृत्यग्निराहृतस्तत्प्रभृति तस्यान्नं न भोक्तव्यं यजमानेन ।

वृक्षाग्राज्ज्वलतो ब्रह्मवर्चसकामस्य ।

स्वयमेव केनचिदग्निना वृक्षो दह्यमानस्तस्याग्रप्रदेशादग्निमाहृत्य ब्रह्मवर्चसकामस्यः यजमानस्याऽऽदध्यात् । तत्र संकल्पः- ब्रह्मवर्चसकामो वृक्षापादग्निमाहृत्य दक्षि- णाग्निमाधास्य इति ।

भर्जनादन्नाद्यकामस्य ।

मननमम्बरीषं यत्राहरहर्जनेन पाको जायते तस्मादानीयेत्यर्थः । स्पष्टमन्यत् ।

या वाजिन्नग्नेः पवमाना पशुषु प्रिया तनूस्तामावह या वाजिन्नग्नेः पावकाऽप्सु प्रियातनूस्तामावह या वाजिन्नग्नेः सूर्ये शुचिः प्रिया तनूस्तामावहेत्यश्वस्य दक्षिणे कर्णे यजमानमग्नितनूर्वाचयति ।

कर्णसमीपे यज्ञतनुनामकान्मन्त्रावाचयति ।

विक्रमस्व महाꣳ असि वेदिषन्मानुषेभ्यः । त्रिषु लोकेषु जागृहि प्रजया च धनेन च । प्राचीमनुप्रदिशं क्रमध्वमग्निनेति तिसृभिरश्वप्रथमाः प्राञ्चो गच्छन्ति ।

सर्वेषां मन्त्रः पठितया सह प्रतीकोपात्ते द्वे एवं तिसृभिनम्भिरश्वः प्रथमोऽग्रगो थेषामृत्विग्यजमानानां तेऽश्वप्रथमा आहवनीयायतनाभिमुखा गच्छेयुः ।

जानुदघ्नेऽग्रे हरत्यथ नाभिदघ्नेऽथाऽऽस्यदघ्ने ।

मन्त्रमुक्त्वा प्राग्गमनं प्रारम्भ एवाग्रं जानुदने ध्री(ध्रि)यमाणमा हसतिः । ततः किंचिद्गत्वा नाभिदघ्ने तथैव किंचिद्गत्वाऽऽस्यदघ्ने तथैव धृत्वा हरति । १ क. ख, ग. च. छ. ट. प. व पु ।