पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० सत्याषाढविरचितं श्रौतसूत्रं- [२द्वितीयप्रश्भे-

या अप्स्वन्तर्देवतास्ता इदꣳ शमयन्तु स्वाहाकृतं जठरमिन्द्रस्य गच्छेत्यद्भिरभ्यवहरति ।

अपो गृहीत्वा ताभिर्मन्त्रेण कण्ठनालेनाधस्तादुदरं प्रापयति तावत्पूर्व कण्ठे धार- यतीत्यवगम्यते ।

आचम्य।

भौतमाचमनम् । आदौ स्मार्त कृत्वा श्रौतं कार्य कर्मालम् । अथवा श्रौतेनैवोम- यसिद्धिः । स्मात धर्मेषूक्तं-त्रिः प्राश्य द्विस्त्रिोऽङ्गुष्ठमूळेन परिमृज्य सकृविs. गुल्यग्रैरुपस्पृश्य सव्यं पाणि पादौ प्रोक्ष्य शिरश्च प्रोक्ष्य, श्रौते त्वालम्येति विशेषः । चक्षुषी नासिके श्रोत्रे सकृत्सकृत्सोदकाङ्गुष्ठतर्जनीभ्यामालभ्य, श्रौते तु हृदयं हस्त. तलेनेत्यधिकम् । शिरसः प्रोक्षणं स्मार्ते, श्रौते त्वालम्भ एवेति ज्ञेयम् ।

घसिना मे मा संपृक्था ऊर्ध्वं मे नाभेः सीदेन्द्रस्य त्वा जठरे सादयामीति नाभिदेशमभिमृशति ।

स्पृष्ट्वा अपति-

वाङ्म आसन्नसोः प्राण इति यथारूपं प्राणायतनानि संमृशति ।

सम्यङ्मृशति स्पृशति सोदकाङ्गुलिभिः । यस्य मन्त्रस्य यद्रूपं लिङ्गं तेन मन्त्रेण सस्य तस्य प्राणस्येन्द्रियस्याऽऽयतनम् । बाहुवोर्बलमिति हस्तद्वयेन सहैव बाहुद्वयं पूर्वमपि सकृदेवोभयोरुभयोर्वाङ्म इति मुखं सलोमकम् ।

अरिष्टा विश्वान्यङ्गानीति सर्वाण्यङ्गानि ।

मा मा हिसीरिति मन्त्रान्तेन हस्तद्वयेन शिरःप्रभृति पादपर्यन्तम् ।

पात्रं प्रक्षाल्य पूरयित्वा दिशो जिन्वेति पराञ्चं निनयति ।

प्राशिवहरणपात्र प्रक्षाल्याद्भिः पूरयित्वोदकं निनयति पातयति पराञ्चमात्मानं कृत्वा । निनयनावसरे पात्रेणोर्ध्वदण्डेन बहिबिलेन निनयने कृते पात्रस्य पृष्ठत आत्मा भवति । क्रियाविशेषणत्वे पराङ्निनयतीति स्यात्पराञ्चमिति पुंलिङ्गानुपपत्तिः ।

अपरं पूरयित्वा मां जिन्वेत्यभ्यात्मं निनयति ।

आत्मानमभिमुखं क्रियाविशेषणमभ्यात्ममिति समासान्तप्रत्ययेनाकारान्तता।

ब्रह्मभागं परिहृतं न पुरा सꣳस्थानात्प्राश्नाति ।

पुरा पूर्व संस्थानान्न प्राश्नातीति प्रतिषेध इतरेषामृत्विनां स्वस्वभागपरिहारानन्त- रमेव प्राशनं तन्मा भूदिति ।

ब्रह्मन्ब्रह्माऽसि ब्रह्मणे त्वाहुताद्य मा मा हिꣳसीरहुतो मह्यꣳ शिवो भवेत्यन्तर्वेद्यन्वा

१ क. ट. °ति तथा कि । २ क. ग, घ ङ, छ. ज. झ. न. ट. ठ. ढ. पुनरा।