पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० सत्याषाढविरचितं श्रौतसूत्रं- [२द्वितीय प्रश्ने-

वाजिनमित्यन्तः । वेदस्याग्रे कर्मदर्शनाद्वैदैकदेशं संततिपर्याप्त स्तुणोते वेदसंस्का. रोऽयं द्वितीयानिर्देशात्सोऽप्यदृष्टार्थ एव । दृष्टस्यादर्शनान्मन्त्रे फलस्तवाच्च । गाईप- त्यागार्हपत्यमारभ्येति ल्यलोपे पञ्चमी । आहवनीयादत्राऽऽपर्वत्वं ज्ञेयम् । कियन्ति वेदतृणानि स्तृणन्प्रसारयन्संततमविच्छिन्नमित्यर्थः । रानिरूपेणैव । भत्र होत्रस्याऽऽध्वर्यचे प्रमझेन ब्राह्मणे विधानात्तत्पाठानुसारेण स्वेनापि व्याख्यातं तावत्प- रित्यज्य होतृसूत्रे व्याख्यास्यते । तस्मादिदं न बाढच्येन हौत्रण विकल्पते किंतु याजुषे हौत्र एव संनिवेशो बाहच्य उक्तं तु तेनानुष्ठाने ग्राह्यमेव । ऋग्वेदेन होता करोतीति स्वेनैवक्तित्वात् ।

यथेतमध्वर्युरेत्य ।

भध्ययुग्रहणं होतल्यावृत्यर्थम् । जहां द्विगृहीत्वा-

या सरस्वती यशोभगीना तस्यै ते स्वाहा या सरस्वती वेशभगीना तस्यै ते स्वाहेति सारस्वतौ होमौ हुत्वा ।

सरस्वती देवता ययोस्तो यथार्थनामानौ जुलाऽऽहवनीय इति । अत एवाss. ज्यार्थान् वाया इत्युक्तमेव । यद्यप्येतदादि दविहोमा एव तथाऽपि दर्शपूर्णमास- तत्रान्तर्गतानामनियमो दर्विहोमधर्माणामिति ज्ञापयति । अत्रैव द्विरित्याह प्राप्तमेव तेनेतरधर्मपरिसंख्येति उत्तरतउपचारों विहार इति सामान्यमेव ।

इन्द्रोऽपानस्य केह मनसो वेशान्कुरु सुमनसः सजातान्स्वाहा ।

जुहोतीति शेषः ।

ऋषभं वाजिनं वयं पूर्णमासं यजामहे । स नो दोहताꣳ सुवीर्यꣳ रायस्पोषꣳ सहस्रिणं प्राणाय सुराधसे पूर्ण- मासाय स्वाहेति पौर्णमास्याम् । अमावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना । सा नो दोहताꣳ सुवीर्यꣳ रायस्पोषꣳ सहस्रिणमपानाय सुराधसेऽमावास्यायै स्वाहेत्यमावास्यायाꣳ स्रुवेण पार्वणौ होमौ जुहोति ।

जह्वाहवनीययोः संबन्धेन प्रवृत्तानां दविहोमधर्माणां निवृत्तिः सुवेणेत्यनेन । पार्वणी पर्वणोरेवैकैकस्य समुदायस्य पौर्णमास्यास्यस्यामावास्याख्यस्य च कर्म- णोऽभूता यथा - पौर्णमासीसमुदायस्य वैमृधः । सप्तमीम्यां निर्दिष्टौ समुदायौ तयोः क्रियमाणत्वात्साङ्गदर्शपूर्णमासयोः पर्वण्येव विधानाद्विशेषसंज्ञाविधानमेकैकपर्व- १ क. च. ट. ठ. धणहो ।