पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ सत्याषाढविरचितं श्रौतसूत्रं- [२ वितीयप्रश्ने-

दर्श संनयतो विषये शाखामित्युक्तं न तु काचिदपूर्वा शाखा विधीयते प्रस्तरेण सह प्रतिपत्त्यर्थ दोहशाखाया एव प्रत्यभिज्ञानात् । शाखापवित्रं न तस्य पवित्रस्थान्या प्रतिपत्तिरस्ति ।

उत्तरं परिधिसंधिमन्ववहृत्य ।

प्रवेशयित्वा प्रस्तरं यद्यस्ति शाखा तया सहेत्यर्थः । ततः कृत्यमाह-

आश्राव्य प्रत्याश्राविते ।। ९ ।।

नात्र दक्षिणातिक्रमो याज्यास्वेव तथा विधानात् । उपविश्यैवाऽऽश्राव्य आसीन इति वैखानसोक्तरुत्करस्थेनैवाग्नीधा प्रत्याश्नाविते, तस्य प्रत्याश्रावणं प्रवरादन्यत्रोत्कर एवेत्युक्तम् ।

इषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीति संप्रेष्यति सूक्तवाकꣳ होता प्रतिपद्यते ।

प्रतिपद्यते प्रारभते । तत्र मध्येऽध्वयों)तृकर्मणा संबन्धनार्थ होतेत्युक्तम् । भपिडिति याजमानम् ।

आप्यायन्तामाप ओषधय इत्यध्वर्युः प्रस्तरꣳ शाखां चानु प्रहरति ।

अनुलक्षाकृत्य सूक्तवाकम् । सत्यां शाखायां तां च । अध्वर्युग्रहणं होतेत्यनुवृ. त्तिर्मा भूदितिप्रदर्शनार्थम् । मेरयेति मन्त्रान्तः । अत्र जैमिनिमतं सूक्तवाक आज्य. भागादिभिरिष्टदेवताः समवेता यथापाठमिति, तथा सूक्तवाकेन प्रस्तरं प्रहरतीति तृतीया कारकविभक्तिः प्रस्तरप्रहरण प्रत्यङ्गत्वमावेदयति । दृष्टद्वाराऽङ्गत्वे मन्त्राणा- मेवं स्थिते सूक्तवाकेन प्रस्तरप्रहरणं प्रकाश्यमेकवाक्यत्वार्थ च देवताप्रस्तरप्रहर. संबन्धोऽपि प्रकाश्यः । स तु विना हो याग वा न भवति । प्रकृते तयोरभवणा- त्प्रहरतिरेव यागं लक्षयेत्स्वार्थात्यागेनैव निर्वपतिरिव । ततस्तु प्रहरणमुपयुक्तप्रस्त- रस्य प्रतिपत्तिरनमितयागस्य चाङ्गयागः सूक्तयाकसाधनकः । अजहलक्षणानिहाय प्रहरतिरपि निर्वपतिवद्यागस्याङ्ग, प्रस्तरस्य संप्रदेयस्य द्रव्यस्याग्नाववस्थापन निर्वा- पमिवाऽऽह । तत्र प्रहरणे प्रतिपत्तिलक्षणे सहभावः शाखायाः सह शाखया प्रस्तरं प्रहरतीति प्रहरणं प्रतिपत्तियथोपयुक्तस्य प्रस्तरस्येवोपयुक्तायाः शाखाया अपीति ना. संनयतोऽपि शाखाग्रहणमिति तृतीयचतुर्थषष्ठाध्यायेषु प्रमेयं निष्पन्नं तात्पर्येण प्रदर्शितम् । तत्र न स्वाहाकार इति वदत्यापस्तम्बः । तमप्रसक्तप्रतिषेधमाशङ्य व्याख्यातारो भूषणं बभूवुः । यज्जैमिनिमतेन प्राप्तिमाशयोक्तवानिति, तदतिमन्दम् । जैमिनिमतमेवानेनोपहितम् । कथं, सूक्तता केन निष्पन्नस्य यागस्य शेषभूतेयं न प्रतिपत्तिः । येन मन्त्रेण स्वाहाकारान्तेन प्रहरणं स्यात्, किंतु पूर्वभाव्यङ्गं यागी-