पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० पटलः] ] महादेवकृतवैजयन्तीब्याख्यासमेतम् । २०५ देवता यथा पञ्चमे प्रयाने यक्ष्यमाणदेवतासंस्कारेऽपि ता एव देवता एवमिष्टदेवतास. स्कारेऽपि स्विष्टकृति ता अपि न कुतो देवता इति चेत् । न । पञ्चमे प्रयाजे मन्त्र. वर्णाद्देवताविधिः, अत्र तु तस्मा एतद्भागधेयं प्रायच्छन्यदग्नये स्विष्टकृते ऽवद्यन्तीत्या- दिनोत्पत्तिविधानादग्निः स्विष्टकृद्देवता मन्त्रेण देवतासंस्कारो द्रव्यप्रति पत्तिर्वषट्कारेण प्रदानमग्नये स्विष्टकृत एवेति त्रिरूपता स्यात् । यदाहः-'मन्त्रेण देवसंस्कारः प्रक्षेपाव्यसंस्कृतिः । या(त्या)गादपूर्वमुत्पन्न प्रधानापूर्वगामि तत् ॥ इति ।

प्रत्याक्रम्य स्रुचमद्भिः पूरयित्वा वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सꣳ शतधारमेतम् । तस्मिन्नेष पितरं पितामहं प्रपितामहꣳ स्वर्गे लोकेविभरत्पिन्वमान इति मध्यमं परिधिं प्रदक्षिणमनु परिषिञ्चति ।।६।।

जुहूपूरणं संस्कार इति भाष्यकृत् । धर्ममात्रमित्यन्ये। पित्रे पितामहाय प्रपितामहा- येदम् । स्मात उदकस्पर्शः पिव्यत्वात् । प्रक्षालनप्रतिपत्तिधर्ममात्रं वा परिध्यभावेऽपि कर्तव्यं परिधिमनु परिधिदेशमनु, कर्मप्रवचनीययोगे द्वितीया । ततस्तु न परिधेः संस्कारः । अत एवोक्तमापस्तम्बेनान्तःपरिधि निनयतीति, बौधायनेन संक्षालनमन्तः- परिधीति ॥६॥

इति सत्याषाढहिरण्यकशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैजयन्यां द्वितीयप्रश्ने द्वितीयः पटलः ॥ २ ॥

2.3 अथ द्वितीयप्रश्ने तृतीयः पटलः ।

सादयित्वा स्रुचावाग्नेयं प्राञ्चं विरुज्याङ्गुष्ठेनोपमध्यमया चाङ्गुल्याऽज्यायो यवमात्रादाव्याधात्कृत्यतामिदम् । मा रूरुपाम यज्ञस्य शुद्धꣳ स्विष्टमिदꣳ हविरि त्यनुमृश्य यवमात्रं पिप्पलमात्रं वा प्राशित्रमवद्यति ।

अवसरप्राप्तमनुवदति-सादयित्वेति । आग्नेयं पुरोडाशं विरुज्य यत्रावदास्यति तत्र प्रदेशे किंचिदपसार्य, कथं, प्राञ्चं, पुंलिङ्गनिर्देशाद्यद्यपि न क्रियाविशेषणं किं तु पुरोडाशविशेषणं तथाऽपि फलतः क्रियाविशेषणम् । अपसारणं प्राचीनं कार्य- मित्यर्थः । अङ्गुष्ठेनानामिकया च विरुग्णे प्रदेशेऽनुमृश्यान्तरङ्गुष्ठाङ्गुत्यौ गमयित्वोदरे मन्त्रेणावद्यति । मध्यादित्यापस्तम्बः । यवो धान्यं तत्प्रमाणं पिप्पलं फलं तदश्वत्थस्यै- १७. छ.ट. तदाहुः।