पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

10 ४१० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । विधानादेकैकं कर्तुं शक्यम् । तत्र कपालशब्दो गौणो भविष्यति कपालधर्मप्राप्त्यर्थम् । द्वितीयान्तता प्रयुनक्तीत्यनेन संबन्धार्थम् ।

अग्निहोत्रहवणीꣳ शूर्पम् ।

अग्निहोत्रं हूयतेऽनया साऽग्निहोत्रहवणी सुग्लक्षणलक्षिता । सा वैकङ्कती होमा- थत्वात् । यान्यनादिष्टवृक्षाणि विककृतस्य तानीति वक्ष्यति । शूर्व लोकप्रसिद्धं, सद्वैणवं नळमयं वेति भरद्वाजः । वर्षवृद्धमसीति शूर्प मन्त्रदर्शनाद्वर्षवृद्धा इषीका इति लिङ्गादेषीकमिति केचित् । इपीका इपीकासदृशतृणानि ।

कृष्णाजिनꣳ शम्याम् ।

कृष्णमृगस्वक्सप्रीवमसत् । शम्या स्फ्येन व्याख्याता ।आकारस्तु यथार्थः । शम्या ( तु युगविले प्रविष्टं काष्ठम् ।

उलूखलं मुसलम्

तत्प्रमाणमर्थसिद्धमेव । वरणस्यैवैते ।

दृषदमुपलाम् ।

लोकप्रसिद्धे पेषाणार्थों ग्रावाणौ कृत्रिमौ जातिवचनौ ।

खादिरꣳ स्रुवं पालाशीं जुहूमाश्वत्थीमुपभृतं वैकङ्कतीं ध्रुवाम् ।

वषट्कारो वै गायत्रिया इत्यनुवाके तथोक्तत्वात् । शाखान्तरीय मानमाह-

अरत्निमात्र्यो बाहुमात्र्यो वा मुखवत्यो हंसमुख- प्रसेचना अग्राग्रा भवन्ति त्वक्तोबिला वायसपुच्छ्य इत्येकेषाꣳ हस्त्योष्ठ्य इत्येकेषाम् ।

इदमग्निहोत्रह्वण्याः सुवस्य च मानं तयोर्मानान्तरानभिधानात् । अररिनमाम्य इत्यादि यद्यपि स्त्रीलिङ्गनिर्देशस्तथाऽपि सुचः समाटि नुवमग्र इत्यादिभूम्ना खुवस्यापि ग्रहणात् । तथा च मानमात्रमेव सुवेण संबध्यते । आकारविशेषः स्नुचां चतसृणामेव । । खुवस्याऽऽकारस्तु खुगाकारेण विरुध्यते । यतोऽस्यावदानार्थत्वेनैव संस्तवः । 'यस्य खादिरः खुवो भवति छन्दसामेव रसेनावद्यति ' इति वाक्यशेषात् । अक्षप्रमाणविल. स्वेनाङ्गुष्ठपर्वमात्रविलत्वेन च शास्त्रान्तरे विधानाच्च । अग्राग्रत्वं त्वक्तौबिलत्वं चावि. रोधादत्रापि संबध्यते । अरनिस्तुः चतुर्विशत्यङ्गुलः । बाहुरडल्यग्रमारभ्य जनुसंश्लिं- ष्टास्थिपर्यन्तो द्विचत्वारिंशदङ्गुल इति केचित् । षट्त्रिंशदङ्गुलो बौधायनमारद्वाज योमते । सुचां प्रादेशमात्रत्वमपि बौधायनेनोक्तम् । मुखवत्यो मुखं बिलमागादूर्ध्वमागो न तु सुववहिलमा समाप्तिरित्यर्थः । हंसस्य मुखमिव प्रसेचन यासां ताः प्रसिच्यतेऽनेन