पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ सत्याषाढविरचितं श्रौतसूत्र- [१प्रथमप्र- यजमानायेति निवारितत्वादुभयोर्मुख्यदक्षिणावस्थितित्यागायोगादन्यतरस्य प्राप्तावपि प्रथमस्य ब्रह्मण एव मुख्यं यजमानस्य तदनुरोधेन किंचिन्नितिकोणेऽपि च न दुष्यति । तथा च ' दक्षिणतआयतनो वै ब्रह्मा' इति तथा ' दक्षिणतःशय एतद्वै यजमानस्याऽऽ. यतनम्' इति च समानश्नुत्योरपि दक्षिणं वेद्यसं श्रितो यजमान इति श्रुत्यन्तराद्वि- रोधपरिहारोऽपि दृश्यते ।

पूर्वे ब्रह्मणेऽपरं यजमानाय ।

चतुथ्यौँ सादर्थे । अत्र ब्रह्मयजमानयोः सदने पूर्वापरे करोतीति व्याख्या- तमेतत् ।

उत्तरेण गार्हपत्यं दर्भान्सꣳस्तीर्य द्वंद्वं पात्राणि प्रक्षाल्य न्यञ्चि प्रयुनक्ति ।

प्रागग्रानुदगग्रान्वा परिभोजनीयेभ्यो दर्भानास्तीर्य तेषु. पात्राणि प्रयुनक्ति स्थाप- यति । उत्तरेणेत्यदूर उत्तरेण प्रयुनक्तीति वोपयत्र संबन्धः । द्वंद्वमित्यपि प्रयुनक्ती- स्यनेनैव संबध्यते । तथा पात्राणि न्यञ्चीत्यपि प्रक्षाल्येत्यपि प्रधाननैव संबध्यते । पश्चात्परस्परसंबन्धः सामर्थ्यात् । ततस्तु पात्राण्यद्भिः प्रक्षाल्य न्यच्चि विलवन्त्येवावाङ्म. खानि द्वंद्वं सर्वाणि प्रयुनत्तीत्यन्वयः । द्वंद्व द्वे द्वे संभरतीति श्रुतेः । तान्येवाऽऽह-फ्यमित्यादीडापात्रमित्यन्तम् । ततश्चकारः श्रूयमाणो द्वाभ्यां साभ्याकेन वा संबध्यते श्रौतस्य चकारस्य प्रत्येक श्रूयमाणस्य व्याख्यानाय । श्रूयते हि-स्फ्यश्च कपालानि चेति । अत्रैकधिया क्रोडीकृतयोर्द्धयोः पदयोरों द्वे पारे विवक्षिते । सद्भुतं द्वित्वं द्वंद्वमित्येतेनीतं, तव्य तौ क्वचित्कचिज्जातो. पर्यवस्यति ततस्त्वेकप्रातिपदिकार्थ एकोऽर्थोऽनेन द्वंद्वपूर्तिः कार्या । , तद्यथा-

स्फ्यं कपालानि ।

सर्वाणि कपालान्येक पात्रम् । स्स्योऽस्याकृतिरित्यापस्तम्बः । अप्तिः खङ्गः। अहोमार्थवाद्वारणवृक्षस्य | आपस्तम्बस्तु स्फ्यः शम्याः प्राशित्रमिति खादिराणीत्याह । स्मयः शम्या च बाहुमात्राविति भारद्वाजः । द्वात्रिंशदङ्गुलेति बौधायनः । षट्त्रिंशॉ. लेत्यन्ये । कपालानि नूतनस्य मिन्नस्य मृन्मयस्य पात्रस्य शकलानि पुरोडाशाधिश्रयण. योग्यानि । रौहिणकपालेषु चाऽऽकृतिविधानात्तथा मृन्मयानि कृत्वा रेखामिविभाग किंचित्कृत्वा पक्त्वा भङ्क्त्वा कार्याणि वा, न तु पृथगेकैकस्मिन्कृते पक्के कपालशब्दो युक्तः । उत्तानेषुः कपालेष्वधिनयतीति दर्शनात् । सोऽवयववाची । रौहिणेषु तु १ ख... ट: "रस्य संः । २ न. ट, सादर ।