पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत्सद्रह्मणे नमः।

सत्याषाढविरचितं श्रौतसूत्रम् ।

महादेवशासिंकलितपयोगचन्द्रिकाव्याख्यासमेतम् ।

अब सप्तदशप्रश्ने प्रथमः पटलः

विनेययुक्ताखिलसिद्धयर्य- लसच्चिदानन्दमुखं मुनीन्द्रम् । नमामि सूत्रार्थविदे मुदाऽहं हिरण्यकेशाज्यगुरु कृपाब्धिम् ॥ ईरितः पोडशनने द्वादशाहविधिमया । एकाहादिविधि धे)म्तन्त्रं प्रश्ने सप्तदशे ह्यथ ।। अकाहानां कर्बोच्यते-

सर्वक्रतूनां प्रकृतिरग्निष्टोमः ॥ १॥

' य एवं विद्वानग्निष्टोमेन यजते, इत्यारभ्य तस्मादाहुये॒ष्ठयज्ञ इति । ( तै० सं० ७-१-१ ) । यमा सर्वेषां देवानां मध्ये ज्येष्ठः प्रजापतिः सृष्टिसाधनत्वेनाग्र एतेना- यजत तस्माज्येष्ठेनेष्टत्वात्-थसमिष्टत्वाच्चायमशिष्टोमो ज्येष्ठयज्ञः सर्वेषामुक्थ्यादीनां मूल- प्रकृतिभूत इत्यर्थः । अशिविषयेण · यज्ञायज्ञा वो आय: ' इति मन्त्रेण संपाद्यमानो योऽयमेकविंशस्तोमम्तेन समाप्यमानत्वादयमशिष्टोम इत्युच्यते ॥ १ ॥

निकायिनां तु प्रथमः सर्वत्र ॥ २ ॥

निकायिनां तु प्रथमसहस्रादयो निकायिनः । चत्वारः साहलाश्चत्वारः साद्यस्का. श्चत्वारो द्विरात्रा इत्येवंविधा निकायिनः ॥ २ ॥

यथादिष्टं वा ॥ ३॥

एकाहेप्वहीनेप्विति प्रतिक्षिणा ददाति । यथासमाम्नातं वा चोदकप्राप्तानामनुवा- दकसूत्रद्वयमिति भाष्यकारमतिः सूत्रस्यात्रोभयाग्रथाश्रुतम् ॥ ३ ॥

ज्योतिर्गौरायुरिति त्रिकद्रुकाः ॥ ४ ॥