पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ सत्यापाढविरचितं श्रौतसूत्रम् - [ १७ प्र- यूपकाले यूपं मिन्वन्ति, पयमां विशसनं कृत्वा मारुत्या दोहनं सवनीयेमा बहिराहर- णम् । प्रसूनमयं त्रेधा संनद्धमित्यादि परिस्तरणान्तम् |

श्वोभूते महारात्रे बुद्ध्वाऽग्ने नयेत्यादि अग्निष्टोमवत् । सवनीयनिर्वापकाले वैश्वदेव- वद्वारुणप्राचासिकानि हवींषि निर्वपति पूर्वस्मिन्नहन्युत्तरस्मिन्नहनि सर्वाणि विभज्य वा ( आप० ० २२ - ८ - ११ ) इत्यापस्तम्बसूत्रम् | कपर्दिना भाष्यकारेणाप्यनुक्तं तस्मादेवं विचारः कर्तव्यः । अस्मिन्नहाने सर्वाणि वारुणप्राघासिकानि हवींषि कर्तव्या- नीति विभज्यास्मिन्नुत्तरस्मिन् | अथवेोत्तरस्मिन्वेति संशयः ।

प्रथमेऽहनि सर्वेषां निर्वापः, इति केचिद्वर्णयन्ति । अथ प्राथम्यात्प्रथम- मतिक्रम्योत्तरस्मिन्निर्वापिकरणाभावात् । तस्मात्पूर्वेऽह्नि विभज्य पूर्वस्मिन्नुत्तरस्मिन्निति सिद्धान्तः । लिङ्गदर्शनादापस्तम्वेन भगवता साकमेधहवींष्य पच्छियोक्तमिति । पुनश्च लिङ्गं चातुर्मास्येष्वैष्टिकेषु सर्वत्र पयस्या देवता इह सोमेषु पशुदेवता वैश्वदेवे वैश्वदे॒वः पशुः । वरुणनवासद्वचहे मारुतः पशुः । द्वितीयस्य वारुणः । साकमेधे पयस्या नास्ति तस्मादन्यः पशुः शुनासीरीये वायव्यं पयः | ऐष्टिके वायव्यः पशुरिति दर्शनान्मारुतः पशुः पूर्वस्मन्विद्यमानत्वात् । मारुतपश्चन्तानि सप्त हवींषिपूर्वीस्मन्नेवाहन द्वितीय उत्तरस्मिन्नहनि वारुणस्य विद्यमानत्वाद्वारुणी पयस्यामेकश्च कायश्चोत्तरस्मिन्नहाने अपि च प्रतिपद्दर्शनाच्च कायमप्युत्तरस्मिन्नहनि कथं साकमेधे त्र्यहे वारुणप्राघासिकेभ्यो द्वयहे च साकमेधे वरुणप्रयासयोरेककपालदेवते कश्चिद्विश्वकर्मा च तद्दैवत्यं प्रतिपद्द्वयं विधीयते वरुणप्रघासयोरह्नोरुत्तरस्मिन्नहनि प्रतिपदि विहितं साकमेघे त्र्यहमेवोत्तरेऽहनि वैश्वकर्माणि प्रतिपदि विहितं तस्मिन्कायम प्युत्तरस्मिन्नहनि कर्तव्यमेवं प्रयोगः कर्तव्यः । अत्र प्रकृतमनुसरामः ।

सबनीयानां पात्रप्रयोगकाले सबनीयार्थानां वारुणप्रात्रासिकानां च पात्राणि प्रयुनकि, सवनयनिरुप्य तस्मिन् शेर्पे यानि वारुणप्राघासिकानि ऐन्द्रानपर्यन्तानि निरुप्य प्रति प्रस्थाता मरुद्रयस्त्वा • ततः करम्भपात्रार्थान् सहैव प्रोक्षणादयः प्रागधिवपनान्तं कृत्वेन्द्रामिंत्रस्य पूषण्वतः सोमस्य सरस्वत्या इति तण्डुलानिदमिन्द्रस्याग्नेः सवितुः पूष्ण इन्द्राग्न्योर्मरुतामिति पेषणार्थत्वान्नैवमधियापः | क्रमेण चतुर्थ्यन्तेन कपालान्युपधाय- मैत्रावरुण्या दोहनम् । मदन्तीरधिश्रयति इत्यादिपिण्डं कृत्वा प्रथमतण्डुलान्यथाभागं व्यावर्तध्वमिदमिन्द्रस्य हरिक्त इन्द्रस्य पूषण्वत इत्येकं भागमिदं सोमस्य सरस्वत्या इत्युक्तं भागमथ पुरोडाशानां न्यावर्तध्वमिति पुनश्च व्यावर्तध्वमथ तण्डुलानां व्यावर्तेयां व्यावर्तव्वं ज्यावर्तेथामिदं सोमस्य सरस्वत्या इति चरोः । इदमिद्राग्न्योर्मरुतामुत्तमो मेषमध्वर्युः करोति । अथ यवानामधिश्रयणादिला जानैन्द्रमथ मैत्रावरुण्या दृध्यानयन -