पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ पटल:] महादेवशास्त्रि संकलितप्रयोग चन्द्रिका व्याख्यासमैतम् । ४२५ मथ वारुप्पप्रघासिकानां यथाक्रमं मेषमधिश्रयति । ततो दध्यानयनमन्तरितं सर्वेषामु द्वासनकाले सर्वेषां क्रमेणोद्वासनम् । द्विरात्रवदग्निष्टोमसामानुसारेणेति । केचित्पशु.. काले मारुतः पशुः । विहरणादूर्ध्वं काले मार्जालीयस्य रक्षणं सवनीयपशोरने वाजजिदितिः कृत्वा माजीलीये करम्भपात्रैः प्रचारः | अक्रन्निति जपित्वा सवनमसीत्यादिसवनीयैः प्रचर्य वारुणप्रघासिकैर्मेषान्तैः प्रचरति । समानं तु स्विष्टकृदिडम् । वैशेषिकाणां च । पञ्चाशदक्षिणा ददाति पत्नीसंयाजान्तमहः संतिष्ठते ।

द्वादशाहवदहीनसंततयः । मैत्रावरुण्या वत्सापाकरणं कृत्वा तदानीमेव वारुण्या- ध्वर्युः करोति | मैत्रावरुण्या दोहनं कृत्वा वारुण्या दोहनमध्वर्युरेव । केचित्-प्रतिप्र- स्थातैव "सवनीयस्य परिस्तरणान्तम् ।

महासत्रे बुद्ध्वा अग्ने नयेत्यादि । सवनीय निर्वापकाले द्वे भर्जनार्थे कपाले एका- दश कपालानि मेष्यर्थमंष्टौ वा कायार्थमेककपालं स्फ्यश्च द्वंद्वम् । शिष्टं सर्वं पूर्ववत् । सवनीयान्निरुप्य तस्मिन्नेवाग्नये जुष्टं० प्रागधिवपनात् । यथाभागं व्यावर्तध्वमिदमिन्द्रस्य हरिवत इन्द्रस्य पूषण्वत इदमिन्द्रस्य वरुणस्य कस्यैन्द्राशीनां च क्रमेणाधिवापं कृत्वा कपा- लान्युपधाय मैत्रावरुण्या दोहनं कृत्वा यथाभागं व्यावर्तध्वं व्यावतैयामिदं वरुणस्येद कस्येत्यादि प्रथममैन्द्रं सवनीयक्रमेणाधिश्रित्य सायंदोहाद्यन्तरितमित्यादि । उद्धासन- काले क्रमेणोद्वासनम् । नात्र मेष्यमेषयोर्व्यतिहारः | (स्वस्यां स्वस्यां ) पशुकाले वारुणः पशु चरणकाले सवनीयैः प्रचर्य ततो वारुण्याः प्रचारं करोति । अध्वर्युः काया- नुब्रूहि इत्यादि, समानं स्विष्टक्वदिडं प्रशित्रं च पञ्चाशद्दाक्षिणा । अवभृथकाले बिन्दु- स्पर्श कृत्वा पिष्टनिष्कासयोस्तूष्णीं प्रक्षेपः । - मैत्रावरुण्यनुबन्ध्या भवति । उदवसानीयान्तं, ततश्चातुर्मासत्रतानि भवन्तीति ।

अथवाऽऽश्वलायनमतादुत्तरेधुरेव वारुणप्रायासिकानां सर्वेषां निर्वापः करम्भपात्राणां च । अथैवं प्रयोगः– पूर्वस्मिन्नहाने पयस्यात्रयस्य दोहनं मैत्रावरुणस्य मारुत्या वारु ण्याश्च । श्वोभूते सवनीयकाले उभयार्थानि पात्राणि प्रयुज्य सवनीयानि निरुप्य तासु यवासु वारुणप्रघासिकानि सर्वाणि निर्वपति करम्भपात्रार्थानि उभया (नि) निगद्योपसादनमु- भयं निगद्य प्रागधिवापनात्कृत्वा यथाभागं व्यावर्तध्वमिदमिन्द्रस्य हरिवत इदमिन्द्रस्य पूषण्वत इदं सोमस्येदं सरस्वत्या इति चर्वर्थान् ( इदमिन्द्राग्योः) इदमिन्द्रस्य : सवितुः पूष्ण इन्द्राग्योर्मरुतां वरुणस्येति पौष्णान्तान्कमेणाधिवापः | क्रमेण कपाला- न्युपधाय मैत्रावरुण्या दोहनम् । ( ततो मारुत्या वारुण्याश्च ) | मदन्ती रश्रियणं पिण्डं कृत्वा पृथक्तण्डुलान्यथाभागं व्यावर्तध्वमिदमिन्द्रस्य हरिक्त इदमिन्द्रस्य पूषण्वत इत्येकं भागम् । इदं सोमस्य सरस्वत्या इत्येकं भागं पुरोडाशस्य व्यावर्तध्वमथैन्द्रपुरोडाशमथ L ५४