पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापादविरचितं श्रौतसूत्रम्-

मनसेतरयोः सवनयोर्न वा मनसा च न ॥ १५ ।।

अयं कल्पः शाखान्तरस्थोऽपि वेत्यापस्तम्बीये दर्शनाच ॥ १५ ॥

त्रिवृतोऽग्निष्टोमस्येषुं विकृ(ष्टु)तिं कृत्वाऽभिचरन्यजेत ॥ १६ ॥

शेषं सर्वमग्निष्टोमवदिति न्यायाच्च । इषुस्तृतायोऽभिचारार्थः । इषुणा तृ ( त्रिी ) वृता यक्ष्ये परमरणार्थम् । श्येनवत् ।। १६ ।। तत्र विशेष:-

समानमितरच्छयेनेन ॥ १७ ॥

व्बतम् ॥ १७ ॥

त्रिवृतोऽग्निष्टोमः ।। १८ ।।

२० ० ‘अश्वः श्यावो दक्षिणा । स ब्रह्मणे देय : ' ( आप ० श्रौ ० २२ - ७ - १९ ) इत्यादि पूर्ववत् ॥ १८ ॥

शुनस्कर्णस्तोमः । सर्वस्वारः ॥ १९ ॥

। चतुर्थ: सर्वस्वार इत्यापस्तम्बः । सर्वस्वार उत्तरे वयस्यधिकारः । साद्यस्कादीनि कर्माणि कृत्वा जातपुत्रवानस्मिन्कर्मण्यधिक्रियते । त्रिवृताऽग्निष्टोमेन शुनस्कर्णस्तोमेन सर्वस्वारेण यक्ष्य इत्यादि । शेषं पूर्ववत् ॥ १९ ॥

मरणकामो यजेत यः कामयेतानामयतां स्वर्गं लोकमियामिति विज्ञायते ॥ २० ।।

त्रिवृता शुनस्कर्णस्तोमेन सर्वस्वारेण यक्ष्ये । स्वर्गलोकमवाप्नवानीति संकल्पः । सर्वमग्निष्टोमवत् । दीक्षाप्रभृति यजमानस्याऽऽर्मवकाले मरणं यथा संभविष्यति तथा यत्नः कर्तव्यः । छन्दोगवचनात् । सर्वभक्षाप्राणभक्षान्भक्षयति । न त्रतादीनि । अनशनमेव मासापवर्गदक्षिाः । आरब्धे यान्मक्षान् गर्तेऽवनयेत् । सूक्तवाक आयुरादिलोपो मरणका- मार्थत्वाच ॥ २० ॥

याम्य: पशुः शुकहरित उपालम्भ्यः ॥ २१ ॥

पशुकाळ आग्नेयं सवनीयं पशुमुपाकृत्य यमदेवत्यं पशुं शुकवर्णमालभते । यमाय त्वा जुष्टमुपाकरोमित्येवं निगमो भवति ॥ २१ ॥

कृतान्नं दक्षिणा ॥ २२ ॥

गतः ॥ २२ ॥

आर्भवे स्तूयमाने दक्षिणेनौदुम्बरीमहतेन वाससा पत्तोदशेन प्रावृत्य दक्षिण [-१.७ प्रभे-