पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । ३०५

यो ब्रह्मचारी स्त्रियमुपेयात्स गर्दभं पशुमालभेत ॥ २२ ॥

आहिता ब्रह्मचर्यकाले स्त्रियमुपेयुपोऽयं विधिः । आहिताग्न्यधिकारात् । अथवा प्रसिद्धब्रह्मचारिण एव ग्रहण रूढेर्बलीयस्त्वात् । वक्ष्यति च धर्मसूत्रे- गर्दभेनावकीर्णी नितिं पाकयज्ञेन यजेत ' इति । न चैवमस्याऽऽनर्थवयं देवताविकल्पार्थत्वात् । न चाऽऽहितान्याधिकारे वचनानुपपत्तिः, देवताभेदे श्रौतप्रयोगविधानार्थत्वेनोपपत्तेः । तस्माब्रह्मचर्यार्थत्वेऽपि न दोषः । तदुक्तं भरद्वाजेन-'यो ब्रह्मचारी स्त्रियमुपेयादिति कस्यायं वादः । आहिताग्नेरित्येकम । अनाहिताग्नेरित्यपरम् ' इति । तत्र त्वाहिताग्नेतिपत्यादिप्रायश्चित्तं द्रष्टव्यम् । यथोक्तं सूत्रकृता--' व्रत्येऽहनि मांसं वाऽग्नाति'। स्त्रियं वोपैति । । । यदि दीक्षितोऽवकिरेत् ' इत्यादि ॥ २२ ॥

भूमावेककपालं पशुपुरोडाशꣳ श्रपयति ॥ २३ ॥

अकपालम् इति(?) वचनामिकपालमित्यवचनाच्च कपालधर्मरहितायां भूमौ पुरोडाशं श्रपयेत् ॥ २३ ॥

अप्स्ववदानैश्चरेयुः ॥ २४ ॥

वपादिमिरवदानैरप्सु चरेयुः । प्रयानादिभिरप्यप्स्वेव प्रचारः, प्रधानसदेशत्वादङ्गानाम् । न चावभृथवद्यत्राऽऽपस्तत्र गच्छन्ति, अपोऽभ्यवहत्येत्यवचनात् । तेनाऽऽप एवोत्तरवेदिस्थाने स्थापनीया भवन्ति । तत्रावभृथवदेवेमादीनामर्थलुप्तानां निवृत्तियथार्थ मन्त्राणामूहश्च द्रष्टव्यः ॥ २४ ॥

नैर्ऋतः प्राजापत्यो वा । रक्षोदेवत इत्येकेषाम् । यमदेवत इत्येकेषाम् ॥ २५ ॥

गर्दभ इति शेषः ।। २५ ॥

यस्य हविः क्षायति तं यज्ञं निर्ऋतिर्गृह्णाति यदा तद्धविः संतिष्ठेत । अथ तदेव हविः पुनर्निर्वपेत् ॥ २६॥

यस्य हविः क्षायति विदह्यते तं यज्ञमलक्ष्मीगृह्णाति न स कार्य इति यावत् । ततश्च क्षामस्य हविष आज्यं प्रतिनिधिं कृत्वा शिष्टश्च हविभिस्तत्कर्म । तत्सस्थाप्यान्यद्धविस्तद्देवतं निर्वपेत् ' इत्यापस्तम्बभरद्वाजौ । संस्थाप्य तस्मिन्नेव विहारेऽन्यद्धविस्तद्देवतं निपेत् । अग्न्यन्वाधानादि तेनैव हविषा पुनर्यजेत नान्यैरक्षामैरपीत्यर्थः । तदेव हविनिपेदित्येव सूत्रकाराभिप्रायः । दोहयोर्दाहे तु वैशेषिकत्वादार्तिप्रायश्चित्तमेवेप्यते ॥ २६ ॥