पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । २९१

आयाहि तपसा जनेष्वग्ने पावको अर्चिषा । उपेमां सुष्टुतिं मम ॥ आ नो याहि तपसा जनेष्वग्ने पावक दीद्यत् । हव्या देवेषु नो दधदिति याज्यानुवाक्ये ॥ २॥

गतः । इदं याजुष होत्रम् ॥ २॥

एतदेवाऽऽहवनीयेऽनुगते प्रायश्चित्तम् । नात्र गार्हपत्यमनुगमयत्यग्नये ज्योतिष्मतेऽष्टाकपालं निर्वपति ॥३॥

तत्र तत्राऽऽहवनीयानुगतौ यथाविहितमग्निमुत्पाद्य ज्योतिष्मती . निर्वपति । यथा यदि सायमहुतेऽग्निहोत्रे यदि प्राग्योमकालादित्यादौ । यत्र तु प्रायश्चित्तविशेषश्चोदितस्तन स एवेप्यते यथाऽन्वाहितादौ । तेनाप्येषा विकल्पित (लप्यत) इत्यन्ये ॥३॥

ननु पूर्वसूत्रेण तपस्वत्यपि तत्र तत्र प्राप्ता । तत्किमनयोरेकस्मिन्दोषे श्रूयमाणत्वात्समुच्चयः । नेत्याह- .

न तपस्वते ॥ ४॥

यदा ज्योतिष्मते निर्वपति तदा न तपस्वते । विकल्प एव स्वनयोः शाखाभेदादिति भावः । अथवा सर्वत्रानुगतेष्टिमित्यनेन सहतत्सामान्यविशेषभावेन योजनीयम् । सर्वाग्निषु तपस्वती । ज्योतिष्मती त्याहवनीये न तपस्वत इति बाध एव तत्र तपस्वत्या इत्यर्थः । मन्थनविषये तु यदि गार्हपत्य आहवनीयो वेति विधिना तपस्वत्येव सर्वत्र न ज्योतिष्मती विशेषविहितत्वात् । अन्यथाऽऽहवनीय तस्यानवकाशत्वप्रसाच्च । तत्रापि तु द्वयोर्विकल्पः; इत्यपरम् ॥ ४ ॥

यदि सायमहुतेऽग्निहोत्रे पूर्वोऽग्निरनुगच्छेदग्निहोत्रमधिश्रित्योन्नीयेत्येकेषाम् । अग्निना पूर्वेणोद्धृत्याग्निहोत्रेणानुद्र(नूद्द्र)वेद्यो ब्राह्मणो बहुवित्सोऽग्निमुद्धरेत् । यत्पुनराधानमादायी स्यात्तद्दद्यात् ॥ ५॥

यद्यप्यत्राहुतेऽग्निहोत्र इतिवचनादा- पूर्वाहुतेरयं विधिरास्थ्यः । तथाऽप्यधिश्रित्याग्निहोत्रमुन्नीय वेत्युद्धरणकालनियमात्सहाग्निहोत्रेणोद्वणवचनाच्च ततः पूर्वकाल एवास्य संकोचः सामर्थ्यात् । बहुविव्याख्यातः । तदयमर्थ:-विहरणकालप्रभृत्याऽधिश्रयणादोन्नयनाद्वाऽऽहवनीयानुगती पूर्ववदाऽऽह्वनीयकर्मवर्जमाधिश्रयणान्तः उन्नयनान्ते वा कर्मणि कृते बहुविब्राह्मणस्तूष्णीमग्निमुद्धरेत् । ततोऽध्वर्युः कृतान्तादारभ्योद्र्वणात्कृत्वा