पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । २८६

रितीति । तथोपग्रन्थकारेणापि को नु खलु विद्वेष इति प्रकृत्योक्तम्- 'यस्याग्निहोत्रस्याऽऽहुती अन्योन्यस्य स्थानमापद्यते । इति । तस्माद्युक्तमेव सप्तहोता भवतीति । यज्ञविनेषेष्टेस्तु विषयव्यवस्था प्रागेव दर्शिता । कात्यायनस्तत्राऽऽह- अग्निहोत्रातिपत्तावाहुतिं जुहुयान्मनो ज्योतिर्जुषतामिति । आश्वलायनश्च मनस्वत्या चतुर्गृहीतं प्रकृत्याऽऽह-अग्निहोत्राहोमे च प्रतिहोममेकः, इति । बौधायनेनासमारूढविषये प्रतिहोम एवोक्तः । । यथा दीप्यमानेष्वेवाहयमानेषु यावन्त्यतिक्रान्तान्यग्निहोत्राणि स्युस्तानि प्रतिसंख्याय जुहुयात् ' इति । विदुषस्तु ब्राह्मणोक्तमप्यनुसंधेयम्- तस्माद्यस्यैवं विदुषः उतैकाहमुत द्वयहं न जुह्वति हुतमेवास्य भवतीति । अत्र चतुरहादूर्ध्वमनेकविच्छेदेऽप्ययमेव विधिः । अतोऽन्यस्यावचनात् । अर्वाश्चतुरहादिष्टिनिवृत्त्यर्थत्वाच्चाधिकवचनस्य । भरद्वाजस्त्वत्र समारूढाग्नेश्चिरकालं होमादिविच्छेदे विशेषमाह-होमेष्वहूयमानेषु चाऽऽत्मन्यरण्योर्वा नियमाणानां कथं तत्र न लुप्यते द्वौ मासावहुतेऽग्निहोत्रे दर्शपूर्णमासाभ्यामनिष्ट्वाऽनये पर्थिकृतेऽनये वैश्वानरायाग्नये व्रतपतयेऽग्नये ऋतभृत इत्येषा महापथिकृदिष्टिः । पवित्रेष्ट्या यजेताग्निहोत्रदर्शपूर्णमासाविति सर्वमानोति । इति । तथा षण्मासानहुतेऽग्निहोत्रे दर्शपूर्णमासाभ्यामनिष्ट्वा वेति प्रकृत्य पूर्ववदेव पवित्रेष्टयन्तमुक्त्वाऽतिपवित्रेष्टया यजेतेत्युक्तवान् । अतो यदत्र कैश्चिच्चतुरहादूर्ध्व होमविच्छेदेऽग्निर्नश्यतीत्युक्तं तदतिसाहसं पश्यामः ॥ ३४ ॥

स्वयं कृण्वानः सुगमप्रयावं तिग्मशृङ्गो वृषभः शोशुचानः । प्रत्नꣳ सधस्थमनुपश्यमान आतन्तुमग्निर्दिव्यं ततान ॥ त्वं नस्तन्तुरुत सेतुरग्ने त्वं पन्था भवसि देवयानः । त्वयाऽग्ने पृष्ठं वयमारुहेमाथा देवैः सधमादं मदेमेति याज्यानुवाक्ये ॥ ३५ ॥ (ख०८)॥

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्ने द्वितीयः पटलः ।

इति सत्यापादहिरण्यकेशिसूत्रव्याख्यायो महादेवशास्त्रिसंकलितायां प्रयोग चान्द्रकायां पञ्चदशप्रश्ने द्वितीयः पटलः ।