पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत्सद्ब्रह्मणे नमः।

सत्यषाढविरचितं श्रौतसूत्रम्

महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् ।

अथैकादशप्रश्नप्रारम्भः ।

तत्र प्रथमः पटलः ।

यदर्पितं कर्म फलाय कल्पते. यदर्पितं बन्धविमुक्तयेऽपि च । सच्चित्सुखानन्तमनन्तमीश्वरं नमामि विष्णुं दुरितेभदारणम् || १ || वेदत्रयात्मन्न[न]लत्रयात्मन्नीशत्रयात्मन्प्रकृतेर्गुणात्मन् । जन्तोरवस्थात्रितयानुविम्धी(म्बि)बिम्बत्रयात्मन्नव मामनर्थात् ॥ २ ॥ विनेययुक्ताखिलसिद्धवर्यलसच्चिदानन्दसुखं मुनीन्द्रम् । नमामि सूत्रार्थविदे मुदाऽहं हिरण्यकेश्याख्यगुरुं कृपाब्धिम् ॥ ३ ॥ गुरुं गणपति नौमि जन्मज्ञानप्रदौ तथा । सह गौर्या महेशानं नौमि विष्णुं च पद्मया ॥ ४ ॥ ज्योतिष्टोमयाजमानं दशमप्रश्न ईरितम् । एकादशद्वादशयोर्वेक्ष्यन्ते (ते) चयनक्रतुम् (तुः) ॥ ५ ॥ ननु वैखानसाधा आचार्याः सप्त संस्थाः सोमस्योपदिशन्ति- अग्निष्टोमोऽत्यनि- होम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त सोमयज्ञसंस्थाः ' (वै. श्री० १-१) इति । तासु चोत्तराः षडप्याद्यस्याग्निष्टोमस्य गुणविकारास्तत्केन विशेषणात्यग्निष्टोमवाजपेययोरनुपादानमिति चेन्न-प्रकृतिभूतानामेव ज्योतिष्टोमसंस्थाना- मत्रानुक्रमणस्याभिप्रेतत्वात् । न तु सोमसंस्थामात्रस्याग्निष्टोमगुणविकारमात्रस्य वा । तत्र न तावदत्यग्निष्टोमः कस्यचित्कतोः प्रकृतिः । वाजपेयस्तु न प्रकृतिः । नापि ज्योतिष्टोमः, सर्वसप्तदशत्वाद्वाजपेयस्य । अतो युक्तमेवानयोरनुपादानम् । तस्मादेवं सिद्धं पञ्चशा- खोऽग्निष्टोमो ज्योतिष्टोम एव सर्वसोमानां प्रकृतिरिति । तथा सर्वक्रतूनां प्रकृतिरग्निष्टोम इत्येतदभिप्राय द्रष्टव्यम् । न च- अग्निं व्याख्यास्यामः । स उत्तरऋत्वर्थः । इति वक्ष्यमाणसूत्रादुत्तरक्रत्वर्थत्वस्याग्निविषये विधानेनार्थादग्निष्टोम उत्तरवेदिसिद्धेः, आपस्त- म्लेन भगवता परिभाषासूत्रे- अग्निष्टोम उत्तरवेदिः । उत्तरेषु ऋतुष्वशिः ' ( आप. , ,