पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ : सत्यापाढावरचितं श्रौतसूत्रम्- १४ प्रश्नै

उपरिष्टादभिषेकस्य जुहोतीत्यनुकर्षः ॥ ३९ ॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादिति पुरुषेण नारायणेन शतातृण्णꣳ सौवर्णꣳ रुक्मं यजमानस्य शिरसि निदधाति ॥ १४.४.४०॥

देवा इत्यन्तः । पुरुषसूक्तानुवाकेन सौवर्णेन शतमानेन शतक्षरेण शतकृष्ण लेन यजमानस्य शीर्षन्नधि निदधाति स्थापयति ॥ ४० ॥

प्रजापतेस्त्वा पृथिव्यै बाहुभ्यामन्तरिक्षस्य हस्ताभ्यां प्रजापतिꣳ साम्राज्यायाभिषिञ्चामीति महिम्नोरुद्रेकेण पर्णमयैः .पात्रैः स(सिꣳ)ह चर्मण्यध्यभिषिञ्चति ॥ ४१ ॥

महिन्नोः संखावेणाभिषिञ्चति यनमानमिति शेषः ॥ ४६॥

ऋषभचर्माभिषिच्यमानस्योपरिष्टाद्धारयन्ति ॥ ४२ ॥

व्याघ्रचर्मावस्तीर्य चर्मण्यवस्थितोऽभिषिच्यते । अभिषिच्यमानस्य राज्ञ उपर्युषभपर्म धार्यते ॥१२॥

ऊर्ध्वा अस्य समिधो भवन्तीति प्राजापत्याभिराप्रीभिर्यजमानस्य हस्तं गृह्णाति ॥ ४३॥

देवी इत्यन्तः । प्राजापत्याप्रीभिादशभिरभिषिच्यमानस्य यजमानस्य दक्षिणहस्तं गृहात्यध्वर्युः ॥ १३ ॥

मृगो न भीम इति वैमृधीभ्यां मुखं विमृष्टे ॥ ४४ ॥

वैमृधीभ्यामृभ्यो यजमानो मुख विमृष्टे हस्ताभ्यामिति शेषः ॥ ४४ ॥

अग्निना देवेन पृतना जयामीति जागतान् । विष्णुक्रमान् क्रामति ॥ ४५ ॥

अभिषेके समाप्ते अग्निना देवेनेति यजमानो जागतान् विष्णुकमान् कामति ॥५॥

मधुश्च माधवश्चेति द्वादशाऽऽहुतीर्जुहोति । त्रयोदशेत्येकेषाम् । वसन्ताय स्वाहा । ग्रीष्माय स्वाहेति जुहोति ॥ ४६ ॥

मधुश्व माधवश्चेति द्वादशभिस्त्रयोदशभिर्वा मासनामभिरभिषिच्यमानस्य (रभिषितस्य ) शिरसि जुहोति । वसन्ताय स्वाहेति पंभिश्च जुहोतीत्यर्थः । सर्वत्र यथालिङ्ग त्यागः माहेन्द्रे न त्वतिग्राह्याः । उक्थ्यादि । सतिष्ठते माध्यदिनसवनम् ॥४६ ।।