पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- [३] इति । अस्यार्थः-पूर्वोक्तप्रकारेण दीर्घचतुरश्नं चतुष्फलकैः कृत्वाऽऽयकोट्यामेको रज्जु प्रबद्धय वायव्यकोट्यामेकां रज्जु प्रनध्य च वलेन रज्ज्वाऽऽकर्षयेत् । यथा कर्षणे कृते पार्धमान्योरन्तराल मृजुत्वेन पक्षकरणी सप्तमेन किंचिदूनत्रयोविंशतितिला- धिकपञ्चाङ्गुलिकेन समं भवति तथाऽऽकर्षयेत् । तिर्यङ्मान्योरन्तरालं तु पुरुषचतुर्थ- मेकं न तस्य हासः किंतु पार्श्वमान्योरन्तरालस्यैव । एवं च वायव्यकोणमारभ्याऽऽग्नेय- कोणपर्यन्तं पञ्चविंशतितिलाधिकचतुर्दशाङ्गुलयो १४ तिला: २५ भवन्ति । नत्य(ती)- , कोणमारम्यैशानीपर्यन्तं दशतिलाधिकदशाङ्गुलयः १० तिलाः १० भवन्ति । अथ पक्ष- मध्यीयाः । पक्षमध्यीयां चतुर्भिाभ्यां द्विसप्तमाभ्यां चेति । अर्थः पूर्ववत् । चतुर्थे अङ्गु- लयः १० तिला: ३२ इमे द्वे पार्श्वे फलके । द्विसप्तमेऽङ्गुलयः १२ तिलाः १७ इमे द्वे तिर्यक्फलके । एवं चतुर्भिः फलकैः पक्षमध्यीया कार्या । . एवं दीर्घचतुरनं कृत्वाऽनन्तरं नमयेत् । नमनप्रकारमाह सूत्रकार:-'पक्षनमन्याः सप्तमेन फलकानि नमयेत्' इति । अस्यार्थः-पूर्वोक्तचतुरश्रस्य द्विसधमात्मकफलकयो- मध्यभागी संनमयेत् । अथ ( ब ) मध्ये नमने कृते पक्षमीयां भागद्वयं पक्षकरण्या: सप्तमेन किंचिदूनत्रयोविंशतितिलाधिकपञ्चाङ्गुलिकेन समं भवति, तथा नमयेत् । तिर्य- मान्योरन्तरालं तु पुरुषचतुर्थमेव । अष्टादशतिलाधिकाष्टादशाङ्गुलात्मकपक्षनमन्याः सप्तमेन द्वाविंशतितिलाधिकद्वयङ्गुलात्मकेनैकस्मिन् तिर्यक्फलकमध्यभाग उन्नतिं चैक स्मिन्निनिति (नता ) च कुर्यात् । तथा चायं निष्कर्षः । एका पक्षेष्टकामाग्नेयोन्नतकोणां संस्थाप्य तदक्षिणतोऽन्यामी- शानोन्नतकोणां संश्लेषयेत् । संश्लिष्टमध्यफलके वे उद्धरेत् । एवं कृते पक्षेष्टकाद्यपरि- मिता षट्कोणा भवन्ति । अथ पक्षाग्रीयाः । पक्षानीयां त्रिभिश्चतुर्थेनैक चतुर्थसप्तमाभ्यामेकं चतुर्थसविशेष- सप्तमाम्यां चेति । अर्थः पूर्ववत् । चतुर्थ-अङ्गुलयः १० तिलाः ३२ । इदं पार्श्व- फलकम् । चतुर्थसप्तममगुलयः १७ तिलाः ७ चतुर्थसविशेषसमं-अङ्गुलयः २१ तिलाः २७ इमे द्वे तिर्यक्फलके । एवं त्रिभिः फलकैः पक्षानीया कार्या । एवं चेशानोन्नतकोणामेका पक्षा संस्थाप्य तद्दक्षिणतः पूर्वभागस्थचतुर्थसविशेष- पूर्वफलकाम/ संश्लेषयेत् । संम्लिष्टमध्यफलके द्वे उद्धरेत् । एवं कृते पक्षेष्टकार्धष्ट- कोभयपरिमिता पञ्चकोणा भवन्ति । एवं षड्विधाः । सहस्रचितिपक्षे षड्विधेष्टकानां प्रत्येकैकाः संख्याः-षोडश्यः ( १९२ ) अर्वेष्टकाः ( १०४ ) पादेष्टकाः ( १६८) पक्षेष्टकाः (४६४) पक्षमध्यीयाः ( २४ ) पक्षाग्रीयाः ( ४८ ) इति सभ्य संख्याः (१०००) एतासामिष्टकानामाकाराः प्रदर्श्यन्ते-आदौ षोडश्या:-अर्धेष्टकायाः-पादे. ष्टकाया:-पक्षेष्टकायाः । -