पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२] दशाङ्गुलयः १४ तिलाः २५ पटेष्टकादीर्घकरणी दशतिलाधिकदशाङ्गुलयः १० तिलाः १: पक्षेष्टकाहस्वकरणी द्वाविंशतितिलाधिकाङ्गुलिद्वयं २ तिलाः २२ पक्षक- रणीसप्तमः-अष्टमांशेन त्रयोविंशतितिलाधिकपञ्चाङ्गुलयः ५ तिलाः २३ पक्षकरणीस. तमः । पक्षायामस्त्रयोदशतिलाधिकनवत्यङ्गुलयः ९. तिलाः १३ चतुर्दशतिलाधिकै. कोनाशीत्यङ्गुलयः ७९ तिलाः १४ पक्षाग्रव्यतिरिक्तपक्षायामश्चतुर्विशतितिलाधिक कोनचत्वारिंशदङ्गुलयः ३९ तिलाः २४ पक्षकरणी अष्टादशतिलाधिकाष्टादशाङ्गु- लयः १८ तिलाः १८ पक्षनमनी । सप्तदशतिलाधिकषट्चत्वारिंशदङ्गुलयः ४६ तिलाः १८ अष्टादशकरणी। अन्न प्रक्रियायामुदाहृतप्रमाणानां केषांचिदिष्टकासूपयोगः । केषांचिदग्निमाने । अथेष्टकाकरणानि । तत्र तावद्धितीयश्येनेष्टकाः षड्विधाः पोडश्यर्धा पादा पक्षा पक्षमध्यीया पक्षानीया इति । तत्राऽऽदौ षोडशी । पोडशी चतुभिः परिगृह्णीयादृष्टमेन त्रिभिरष्टमैश्चतुर्थेन चतुर्थ- सविशेषेण इति सूत्रम् । अस्यार्थ:---षोडशीसंज्ञकामिष्टका चतुर्भिः फलकैः संपादयेत् । अष्टमेन सपादषोडशतिलाधिकपञ्चाङ्गुलिकनैकं फलकम् । त्रिभिरष्टमैः, त्रिगुणिताष्टमे- नेत्यर्थः । पादोनपश्चदशतिलाधिकषोडशाङ्गुलिकनैक, इमे पार्श्वफलके। चतुर्थेन सार्धतिलोनैकादशाङ्गुलिकेनैक तिर्यक् । चतुर्थसविशेषेण अष्टादशतिलाधिकपञ्चदशा- गुलिकेनैकमक्ष्णया तिर्यक् । इमे तिर्यक्फलके । एवं चत्वार । एतैः फलकैः षोडशी कार्या । एवमग्रेऽपि ज्ञेयम् । अथाष्टकाः । अर्धेष्टको त्रिभिाभ्यों चतुभ्यौं चतुर्थसविशेषणेति । अस्यार्थः पूर्ववत् । चतुर्थाङ्गुलयः ( चतुर्थम्-अङ्गुलयः ) १० तिलाः ३२ । एवं द्वे चतुर्थ- सविशेषः । अङ्गुलयः १५ तिलाः १८ इदमेकम् । एवं त्रीणि फलकानि । एतैरर्धेष्टका कार्या । इयं त्रिकोणा। अथ पादेष्टकाः । 'पादेष्टकां विभिश्चतुर्थनेक चतुर्थसविशेषार्धाभ्यां च' इति । अर्थः पूर्ववत् । चतुर्थ, अङ्गुलयः १० तिलाः ३२ इदमेकम् । चतुर्थसविशेषाऽङ्गुलयः ७ तिलाः २६ इमे दे । एवं त्रिभिः फलकैः पादेष्ठका कार्या । इयमपि त्रिकोणा । अथ पक्षेष्टकाः । पक्षेष्टकां चतुर्मिीभ्यां चतुर्थाभ्यां सप्तमाभ्यां चेति । अर्थः पूर्व- वत् । चतुर्थमङ्गुलयः १० तिलाः ३२ इमे द्वे पार्थे फलके । सप्तमम्-अङ्गुलयः ६ तिलाः ९ इमे द्वे फलके तिर्यक् । एतैश्चतुर्भिः फलकै पक्षेष्टका कार्यो । दीर्घचतुरनं कृत्वाऽनन्तरं नमयेत् । नमनप्रकारमाह सूत्रकारः-'पक्षकरण्याः सप्तमं तिर्यङ्मानी पुरुषचतुर्थे च पार्थमानी तस्या अक्ष्णया रज्ज्वा करणं प्रजम्भयेत् ' १ नक्षनमनी सप्तमः । २ चेति ।