सामग्री पर जाएँ

पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/74

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६
संस्कृतकथासंग्रह:

तमन्नमिदं भुङ्क्ते । तच्छ्रुत्वा प्रहसन्भीमसेनस्तदन्नं भुङ्क्त एव । संक्रुद्धोऽसौ राक्षसो भीमं पाणिभ्यां पृष्ठेऽहन् वृक्षमादाय तं च तेनाताडयत् । किंतु भीमस्तदेवान्नं भुङ्क्त एव । शनैरन्नं भुक्त्वा महाबलो भीमो युद्धायोदतिष्ठत् । दक्षिणेन बाहुना तस्य शिरोधरां परिगृह्य, सव्येन पाणिना कटिदेशे वाससि गृहीत्वा भीमो भैरवं रवं कुर्वन्तं तं दानवं द्विगुणं कृतवान् । तदा तस्य वक्त्राद्रुधिरं प्रादुरासीत् । ततः स बको गतासुरभवत् । ततः स भीमस्तं हत्वा ब्राह्मणवेश्म गत्वा तस्मै सर्वं वृत्तान्तमकथयच्च । स च ब्राह्मणः सदारपुत्रः प्रमुदितोऽभवत् ।

EXERCISES.

( 1 ) Explain the forms :- व्यपोहितुम्, पुष्टः, विहित, कार्यः, अनुमंस्ये, व्यतीतायां, भुञ्जान.
( 2 ) Q. संक्षेपेण लिख्यतामियं कथा |
 भैक्षं Begging alms. अप-कृष् To remove. व्यपोहितुं To remove. जनपद: A country. वेतनं Wages. शालि: Rice. वाह: A kind of measure equal to ten kumbhas or four Bharas. वार: A turn विहित Agreed. गति: A way. अनु-मन् To consent to. पुरुषादक: A man-eater. सव्य Left. शिरोधरा A neck. कटिदेश: A waist. द्विगुणं कृ To fold double. रुधिरं Blood.