पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/73

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यसनमुक्तस्य ब्राह्मणस्य । सा तान्समुपसृत्याब्रवीत् । कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि । अपकर्षितुं शक्यं चेदपकर्षेयमिति । तदा ब्राह्मण उवाच । इदं दुःखं मानुपेण व्यपोहितुं न शक्यम्। अस्य नगरस्य समीपं बको नाम महाबलो राक्षसो वसति । मानुषमांसेन पुष्टोऽसौ जनपदमिमं नित्यं रक्षति । तस्य वेतनं विहितं शालिवाहस्य भोजनं, महिषौ पुरुषश्चैको यस्तदादाय गच्छति । एकैकश्चापि पुरुषस्तप्रयच्छति भोजनम् । सोऽयं कुलविनाशनो वारोऽस्माननुप्राप्तः । गतिं चैव न पश्यामि तस्मान्मो क्षाय रक्षसः । सोऽहं दुःखार्णवे मग्र इति । (द्वितीयः परिच्छेदः) तदा कुन्त्यब्रवीत् । न विषादस्त्वया कार्यः । उपायः परिदृष्टोऽत्र तस्मा न्मोक्षाय रक्षसः । ब्रह्मन्, मम पञ्च सुतास्तेषामेको गमिष्यतीति । तदा ब्राह्मणेनोक्तम् । नाऽहमेतत्करिष्यामि कथंचन । श्रेयांस्तु सदारस्य मम विनाशोऽद्य । िकंतु ब्राह्मणस्य वधं नाऽहमनुमंस्ये कदाचनेति । कुन्त्या प्रतिभाषितम् । न चासौ राक्षसः शक्तो मम पुत्रविनाशने । मम पुत्रो वीर्य वांस्तेजस्वी च । राक्षसाय भोजनं दत्त्वा मोक्षयिष्यति चात्मानमिति । एवमुक्तः कुन्त्या स िवप्रो हृष्टोऽभवत्। ततः कुन्ती तत्कुरुष्वेति भीमः मब्रवीत्स तथेत्यवद्च । ( तृतीयः परिच्छेदः) ततो रात्र्यां व्यतीतायां भीमसेनोऽन्नमादाय तत्र प्रायाद्यत्रासीदसौ पुरु षादकः । तं राक्षसं च नाम्नाऽऽह्वयत् । तेन कुद्धोऽसौ भीममुपागच्छत् । तदन्नं भुञ्जानं भीमसेनं दृष्टा स इदं वचनमब्रवीत् । कोऽयं मदर्थमुपकल्पि