सामग्री पर जाएँ

पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/55

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
हनुमत्प्रत्ययार्थ सीता स्ववृत्तान्तं वर्णयति ।

(2) (a) Write a note on the following :
 खेलनाद्विरमत ।
(b) Mark the different words used in this 1essorm for :
 A boy, 2. fr(0, a Stone.
(3) बालका लिख्यतां ताप्तर्यमस्याः कथायाः ।
 भेकः, दर्दूरः, मंडूकः A frog. पाषाणः, उपलः, शिला (f)दृषद् (f ) A stone. वि-रम् (p.) to stop.


३. हनुमत्प्रत्ययार्थ सीता स्ववृत्तान्तं वर्णयति ।

उवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम् ।
स्नुषा दशरथस्याहं शत्रुसैन्यप्रणाशिनः ॥ १ ॥
दुहिता जनकस्याहं वैदेहस्य महात्मनः ।
सीतेति नाम्रा चोक्ताहं भार्या रामस्य धीमतः ॥ २ ॥
ततस्रयोदशे वर्षे राज्ये चेक्ष्वाकुनन्दनम् ।
अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ॥ ३ ॥
तस्मिन्संध्रियमाणे तु राघवस्याभिषेचने ।
कैकेयी नाम भर्तारमिदं वचनमब्रवीत् ॥ ४ ॥
न पिबेयं न खादेयं प्रत्यहं मम भोजनम् ।
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥ ५ ॥
यत्तदुतं त्वया वाक्यं प्रीत्या नृपतिसत्तम ।
तचेन्न वितथं कार्य वनं गच्छतु राघवः ॥ ६ ॥