सामग्री पर जाएँ

पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/54

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६
संस्कृतकथासंग्रहः

(b) State in your own words (in Sanskrit) why the sacrifice, performed by दक्ष, was destroyed by God Shiva.
 रहसि In private. मखः A sacrifice. कपाल:-लं The skull. कपालमालिन् An epithet of God Shiva. मन्युः Anger. नाशितः Destroyed.


२. परपीडा न कर्तव्या ।

 अथैकदा केचिद्वालकाः कासारस्य तटमुपगता जले च लीलया पाषाणान् प्रक्षेप्तुं प्रारभन्त।
 तेनान्तर्निवासिनो भेका अम्रियन्त । ततस्तेषामेकतमो वृद्धो दर्दुरो बहिरागत्याभाषत। बालाः, किमर्थं यूयमस्मासु शिलाः प्रक्षिपथ । तदावददेकः कुमारः । भो मण्डूक, वयमेतानुपलान् वारिणि निक्षिप्य क्रीडामः। ततः स दर्दुरः पुनरगदत्। दृषत्प्रक्षेपणं युष्माकं क्रीडा किंत्वस्माकं मरणमेव भवति । तदेतस्मात्खेलनाद्विरमतेति। एतदाकर्ण्य, 'साधूक्तमनेन मंडूकेन, तस्माद्गृहमेव गच्छामो वयमि'त्येकेन दारकेण तदा भाषितम् । तस्य वचनं श्रुत्वा सर्वे कुमाराः स्वगृहं प्रतिन्यवर्तन्त ।

EXERCISES.

(1) Change the voice of the following sentences:-
 (i) तदावददेकः कुमारः ।
 (ii) साधूक्तमनेन मंडूकेन ।
 (iii) एकेन दारकेण भाषितम् ।