सामग्री पर जाएँ

पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/36

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८
संस्कृतकथासंग्रहः


 लवः
–(विहस्य) आर्य, जामदयः पराभूत इति किमर्थ स्तूयतेऽसौ । श्रृणु, द्विजानां वीर्य वाण्यामेवास्ति । किंतु क्षत्रियाणां वीर्य बाह्वोरेव वर्तते । शस्त्र 'धारयन् ब्राह्मणो युद्धे पराजित इति कां स्तुतिमर्हति स नृपः ।
 चन्द्र०
– आर्य सुमन्त्र, कोऽयं बालो यो भृगुनन्दनं वीरं न गणयति। न हि जानाति तातचरितमपि ।
 लवः
—को हेि रघुपतेश्चरितं महिमानं च न जानाति । ताटकाया वधं कृत्वा महती कीर्तिर्येन लब्धा । कथं तेन खरो नाम राक्षसो निघूदितस्त प्रसिद्धमेव । वालिवधे यत्कौशलं तेन दर्शितं तदपि प्रख्यातमस्ति लोके ।
 चन्द्र०
–आः, अति हि नाम प्रगल्भसे । तातमप्यधिक्षिपसि।
 लवः
–(स्वगतम्) अये, मयि क्रुद्धोऽसौ जातः । (प्रकाशम्) कुमार,एहि । युद्धभूमिमेव गच्छावः ।

(इति गच्छन्ति सर्वे )

Note - A dialogue for boys to act. अनु-ज्ञा 'To allow. प्रियदर्शन Beautiful. काऽप्यवस्था .An indescribable state. अधि-क्षिप्र To Censure.



२०. संकीर्णश्लोकाः।

लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् ।
तृषार्ते दुःखमाप्नोति परत्रेह च मानवः ॥ १ ॥
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अधुवं नष्टमेव च ॥ २ ॥