सामग्री पर जाएँ

पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/35

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७
लवचन्द्रकेतुसंवादः।


 सुमन्त्रः– आयुष्मन् । लव इति दूतैः कथितम्
 चन्द्र०–भो भो लव महाबाहो,। किं तवैतैः सैनिकैः । एहि, एष तिष्ठाम्यहमत्र पुनर्युद्धाय ।

 सुमन्त्रः-(स्वगतम्) कथमीदृशेन वीरेण सह वत्सस्य चन्द्रकेतोर्युद्धमनुजानीमः। अथवा, उपस्थिते युद्धे किं कुर्मः । (प्रकाशम्) कुमार, पश्य ।प्रतिनिवृत्त एष वीरः ।

( ततः प्रविशति लवः)

 कुमारौ–(अन्योन्यं प्रति) अहो प्रियदर्शनः कुमारः ।
 लवः–(चन्द्रकेतुमवलोक्य, स्वगतम्) एनं दृष्टा कामप्यवस्थामनुभवाम्य हम् । यथा चन्द्रस्योदये कुमुदं विकसति तथैवामुं विलोक्य मम दृष्टिरानन्दं गच्छति । किंतु ममायं बाहुः पुनर्युद्धाय फुरत्येव ।
 चन्द्र०- आर्य, अयमसा चन्द्रकातुराभवादय ।
 सुमन्त्रः -वत्स्, यदि त्वां राजा रामभद्रः पश्येत्तदा तस्य हृदयं स्नेहेनाद्रं भवेत् ।
 लवः–सुजनः स राजर्षिः श्रूयते । सर्वे जनास्तं बहु मन्यन्ते । किंतु भवतामश्वस्य रक्षकाणां वचनानि मम कोपं जनयन्ति ।
 चन्द्र०–किं न सहते भवान् मे तातस्य प्रतापम् ।
 लवः –अस्वेव तत् । ननु पृच्छामि चन्द्रकेतो किं शौर्यमेकस्मिन्नेव पुरुषे तिष्ठति ।
 सुमन्त्रः–नैव खलु जानासि देवं रामभद्रम्। अत एवं वदसि । तेन रामभद्रेण युद्धे पराजितः परशुरामः । अपि श्रुतमेतद्भवता ।