कुन्तीपुत्रो धनञ्जयस्तस्य विप्रस्य तानि वाक्यान्यशृणोत्। भीतो मा भवेति स तं द्विजमभाषत। किंतु तेषामायुधान्यासंस्तत्रासीद्धर्मराजः कृष्णया सह। अतोऽसौ सम्प्रवेशायाशक्त आसीत् ।तदासौ कौन्तेयो दुःखितोऽचिन्तयत्।
यद्यस्य विप्रस्याद्य रक्षणं न करोमि तर्हि महानधर्मो भवेत् । अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम । किंतु शरीरस्य विनाशेन धर्म एव श्रेष्ठः। इति विनिश्चित्यानुप्रविश्य धनुरादाय च ब्राह्मणं प्रत्यभाषत। ब्राह्मणाऽऽगम्यतां शीघ्र यावत्ते क्षुद्रा न दूरे गता इति।
स महाबाहुरनुसृत्य तांश्चौरानवजित्य तद्भोधनं तस्मै ब्राह्मणाय च प्रत्यर्प्य पुरमागच्छत् ।
EXERCISES.
(1)(a) Separate the following words:―
वाक्यान्यशृणोत्।
तेषामायुधान्यासंस्तत्रासीद्धर्मराजः।
तांश्चौरानवजित्य।
(b) Explain the following sandhis:―
अशक्त आसीत्। धर्म एव। गता इति।
(2) Fill in the blanks:―
(i) केचित्तस्करा ब्राह्मणस्य―अपाहरन्।
(ii) यद्यस्य—रक्षणं—करोमि—महान्—भवेत्।
(3) Explain the forms:―
आगम्य, ह्रियते, धावत, विनिश्चित्य, आगम्यताम्, प्रत्यर्प्य,
तस्करः A thief. गोधनं Wealth in the form of Cows. प्रसह्य By force. कृष्णा A